| |
|

This overlay will guide you through the buttons:

जाङ्गिडोऽसि जङ्गिडो रक्षितासि जङ्गिडः ।द्विपाच्चतुष्पादस्माकं सर्वं रक्षतु जङ्गिडः ॥१॥
जाङ्गिडः असि जङ्गिडः रक्षिता असि जङ्गिडः ।द्विपाद् चतुष्पाद् अस्माकम् सर्वम् रक्षतु जङ्गिडः ॥१॥
jāṅgiḍaḥ asi jaṅgiḍaḥ rakṣitā asi jaṅgiḍaḥ .dvipād catuṣpād asmākam sarvam rakṣatu jaṅgiḍaḥ ..1..

या गृत्स्यस्त्रिपञ्चाशीः शतं कृत्याकृतश्च ये ।सर्वान् विनक्तु तेजसोऽरसां जङ्गिडस्करत्॥२॥
याः गृत्स्यः त्रि-पञ्च-आशीः शतम् कृत्या-कृतः च ये ।सर्वान् विनक्तु तेजसः अरसाम् जङ्गिडः करत्॥२॥
yāḥ gṛtsyaḥ tri-pañca-āśīḥ śatam kṛtyā-kṛtaḥ ca ye .sarvān vinaktu tejasaḥ arasām jaṅgiḍaḥ karat..2..

अरसं कृत्रिमं नादमरसाः सप्त विस्रसः ।अपेतो जङ्गिडामतिमिषुमस्तेव शातय ॥३॥
अरसम् कृत्रिमम् न अदम् अरसाः सप्त विस्रसः ।अप इतस् जङ्गिडाम् अतिमिषु-मस्ता इव शातय ॥३॥
arasam kṛtrimam na adam arasāḥ sapta visrasaḥ .apa itas jaṅgiḍām atimiṣu-mastā iva śātaya ..3..

कृत्यादूषण एवायमथो अरातिदूषणः ।अथो सहस्वाञ्जङ्गिडः प्र न आयूंषि तारिषत्॥४॥
कृत्या-दूषणः एव अयम् अथो अराति-दूषणः ।अथ उ सहस्वान् जङ्गिडः प्र नः आयूंषि तारिषत्॥४॥
kṛtyā-dūṣaṇaḥ eva ayam atho arāti-dūṣaṇaḥ .atha u sahasvān jaṅgiḍaḥ pra naḥ āyūṃṣi tāriṣat..4..

स जङ्गिडस्य महिमा परि णः पातु विश्वतः ।विष्कन्धं येन सासह संस्कन्धमोज ओजसा ॥५॥
स जङ्गिडस्य महिमा परि नः पातु विश्वतस् ।विष्कन्धम् येन सासह संस्कन्धम् ओजः ओजसा ॥५॥
sa jaṅgiḍasya mahimā pari naḥ pātu viśvatas .viṣkandham yena sāsaha saṃskandham ojaḥ ojasā ..5..

त्रिष्ट्वा देवा अजनयन् निष्ठितं भूम्यामधि ।तमु त्वाङ्गिरा इति ब्राह्मणाः पूर्व्या विदुः ॥६॥
त्रिस् त्वा देवाः अजनयन् निष्ठितम् भूम्याम् अधि ।तम् उ त्वा अङ्गिराः इति ब्राह्मणाः पूर्व्याः विदुः ॥६॥
tris tvā devāḥ ajanayan niṣṭhitam bhūmyām adhi .tam u tvā aṅgirāḥ iti brāhmaṇāḥ pūrvyāḥ viduḥ ..6..

न त्वा पूर्वा ओषधयो न त्वा तरन्ति या नवाः ।विबाध उग्रो जङ्गिडः परिपाणः सुमङ्गलः ॥७॥
न त्वा पूर्वाः ओषधयः न त्वा तरन्ति याः नवाः ।विबाधः उग्रः जङ्गिडः परिपाणः सुमङ्गलः ॥७॥
na tvā pūrvāḥ oṣadhayaḥ na tvā taranti yāḥ navāḥ .vibādhaḥ ugraḥ jaṅgiḍaḥ paripāṇaḥ sumaṅgalaḥ ..7..

अथोपदान भगवो जाङ्गिडामितवीर्य ।पुरा त उग्रा ग्रसत उपेन्द्रो वीर्यं ददौ ॥८॥
अथ उपदान भगवः जाङ्गिड अमित-वीर्य ।पुरा ते उग्रा ग्रसतः उप इन्द्रः वीर्यम् ददौ ॥८॥
atha upadāna bhagavaḥ jāṅgiḍa amita-vīrya .purā te ugrā grasataḥ upa indraḥ vīryam dadau ..8..

उग्र इत्ते वनस्पत इन्द्र ओज्मानमा दधौ ।अमीवाः सर्वाश्चातयं जहि रक्षांस्योषधे ॥९॥
उग्रः इद् ते वनस्पते इन्द्रः ओज्मानम् आ दधौ ।अमीवाः सर्वाः च अतयम् जहि रक्षांसि ओषधे ॥९॥
ugraḥ id te vanaspate indraḥ ojmānam ā dadhau .amīvāḥ sarvāḥ ca atayam jahi rakṣāṃsi oṣadhe ..9..

आशरीकं विशरीकं बलासं पृष्ट्यामयम् ।तक्मानं विश्वशारदमरसां जङ्गिडस्करत्॥१०॥
आशरीकम् विशरीकम् बलासम् पृष्ट्यामयम् ।तक्मानम् विश्व-शारद-मरसाम् जङ्गिडः करत्॥१०॥
āśarīkam viśarīkam balāsam pṛṣṭyāmayam .takmānam viśva-śārada-marasām jaṅgiḍaḥ karat..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In