| |
|

This overlay will guide you through the buttons:

शतवारो अनीनशद्यक्ष्मान् रक्षांसि तेजसा ।आरोहन् वर्चसा सह मणिर्दुर्णामचातनः ॥१॥
शत-वारः अनीनशत् यक्ष्मान् रक्षांसि तेजसा ।आरोहन् वर्चसा सह मणिः दुर्णाम-चातनः ॥१॥
śata-vāraḥ anīnaśat yakṣmān rakṣāṃsi tejasā .ārohan varcasā saha maṇiḥ durṇāma-cātanaḥ ..1..

शृङ्गाभ्यां रक्षो नुदते मूलेन यातुधान्यः ।मध्येन यक्ष्मं बाधते नैनं पाप्माति तत्रति ॥२॥
शृङ्गाभ्याम् रक्षः नुदते मूलेन यातुधान्यः ।मध्येन यक्ष्मम् बाधते न एनम् पाप्मा अति तत्रति ॥२॥
śṛṅgābhyām rakṣaḥ nudate mūlena yātudhānyaḥ .madhyena yakṣmam bādhate na enam pāpmā ati tatrati ..2..

ये यक्ष्मासो अर्भका महान्तो ये च शब्दिनः ।सर्वां दुर्णामहा मणिः शतवारो अनीनशत्॥३॥
ये यक्ष्मासः अर्भकाः महान्तः ये च शब्दिनः ।सर्वाम् दुर्णामहा मणिः शत-वारः अनीनशत्॥३॥
ye yakṣmāsaḥ arbhakāḥ mahāntaḥ ye ca śabdinaḥ .sarvām durṇāmahā maṇiḥ śata-vāraḥ anīnaśat..3..

शतं वीरान् अजनयच्छतं यक्ष्मान् अपावपत्।दुर्णाम्नः सर्वान् हत्वाव रक्षांसि धूनुते ॥४॥
शतम् वीरान् अजनयत् शतम् यक्ष्मान् अपावपत्।दुर्णाम्नः सर्वान् हत्वा अव रक्षांसि धूनुते ॥४॥
śatam vīrān ajanayat śatam yakṣmān apāvapat.durṇāmnaḥ sarvān hatvā ava rakṣāṃsi dhūnute ..4..

हिरण्यशृङ्ग ऋषभः शातवारो अयं मणिः ।दुर्णाम्नः सर्वांस्तृध्वाव रक्षांस्यक्रमीत्॥५॥
हिरण्य-शृङ्गः ऋषभः शातवारः अयम् मणिः ।दुर्णाम्नः सर्वान् तृध्वा अव रक्षांसि अक्रमीत्॥५॥
hiraṇya-śṛṅgaḥ ṛṣabhaḥ śātavāraḥ ayam maṇiḥ .durṇāmnaḥ sarvān tṛdhvā ava rakṣāṃsi akramīt..5..

शतमहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम् ।शतं शश्वन्वतीनां शतवारेण वारये ॥६॥
शत-महम् दुर्णाम्नीनाम् गन्धर्व-अप्सरसाम् शतम् ।शतम् शश्वन्वतीनाम् शत-वारेण वारये ॥६॥
śata-maham durṇāmnīnām gandharva-apsarasām śatam .śatam śaśvanvatīnām śata-vāreṇa vāraye ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In