| |
|

This overlay will guide you through the buttons:

ऐतु देवस्त्रायमाणः कुष्ठो हिमवतस्परि ।तक्मानं सर्वं नाशय सर्वाश्च यातुधान्यः ॥१॥
ऐतु देवः त्रायमाणः कुष्ठः हिमवतः परि ।तक्मानम् सर्वम् नाशय सर्वाः च यातुधान्यः ॥१॥
aitu devaḥ trāyamāṇaḥ kuṣṭhaḥ himavataḥ pari .takmānam sarvam nāśaya sarvāḥ ca yātudhānyaḥ ..1..

त्रीणि ते कुष्ठ नामानि नद्यमारो नद्यारिषः ।नद्यायं पुरुषो रिषत्।यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥२॥
त्रीणि ते कुष्ठ नामानि नद्यमारः नद्यारिषः ।नद्या अयम् पुरुषः रिषत्।यस्मै परिब्रवीमि त्वा सायंप्रातर् अथ उ दिवा ॥२॥
trīṇi te kuṣṭha nāmāni nadyamāraḥ nadyāriṣaḥ .nadyā ayam puruṣaḥ riṣat.yasmai paribravīmi tvā sāyaṃprātar atha u divā ..2..

जीवला नाम ते माता जीवन्तो नाम ते पिता ।नद्यायं पुरुषो रिषत्।यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥३॥
जीवला नाम ते माता जीवन्तः नाम ते पिता ।नद्या अयम् पुरुषः रिषत्।यस्मै परिब्रवीमि त्वा सायंप्रातरथः दिवा ॥३॥
jīvalā nāma te mātā jīvantaḥ nāma te pitā .nadyā ayam puruṣaḥ riṣat.yasmai paribravīmi tvā sāyaṃprātarathaḥ divā ..3..

उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव ।नद्यायं पुरुषो रिषत्।यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥४॥
उत्तमः अस्य ओषधीनाम् अनड्वान् जगताम् इव व्याघ्रः श्वपदाम् इव ।नद्या अयम् पुरुषः रिषत्।यस्मै परिब्रवीमि त्वा सायंप्रातर् अथ उ दिवा ॥४॥
uttamaḥ asya oṣadhīnām anaḍvān jagatām iva vyāghraḥ śvapadām iva .nadyā ayam puruṣaḥ riṣat.yasmai paribravīmi tvā sāyaṃprātar atha u divā ..4..

त्रिः शाम्बुभ्यो अङ्गिरेभ्यस्त्रिरादित्येभ्यस्परि ।त्रिर्जातो विश्वदेवेभ्यः ।स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । तक्मानं सर्व नाशय सर्वाश्च यातुधान्य ॥५॥
त्रिस् शाम्बुभ्यः अङ्गिरेभ्यः त्रिस् आदित्येभ्यः परि ।त्रिस् जातः विश्वदेवेभ्यः ।स कुष्ठः विश्व-भेषजः साकम् सोमेन तिष्ठति । तक्मानम् सर्व नाशय सर्वाः च यातुधान्य ॥५॥
tris śāmbubhyaḥ aṅgirebhyaḥ tris ādityebhyaḥ pari .tris jātaḥ viśvadevebhyaḥ .sa kuṣṭhaḥ viśva-bheṣajaḥ sākam somena tiṣṭhati . takmānam sarva nāśaya sarvāḥ ca yātudhānya ..5..

अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि ।तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । तक्मानं सर्व नाशय सर्वाश्च यातुधान्य ॥६॥
अश्वत्थः देव-सदनः तृतीयस्याम् इतस् दिवि ।तत्र अमृतस्य चक्षणम् ततस् कुष्ठः अजायत ।स कुष्ठः विश्व-भेषजः साकम् सोमेन तिष्ठति । तक्मानम् सर्व नाशय सर्वाः च यातुधान्य ॥६॥
aśvatthaḥ deva-sadanaḥ tṛtīyasyām itas divi .tatra amṛtasya cakṣaṇam tatas kuṣṭhaḥ ajāyata .sa kuṣṭhaḥ viśva-bheṣajaḥ sākam somena tiṣṭhati . takmānam sarva nāśaya sarvāḥ ca yātudhānya ..6..

हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि ।तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । तक्मानं सर्व नाशय सर्वाश्च यातुधान्य ॥७॥
हिरण्ययी नौः अचरत् हिरण्य-बन्धना दिवि ।तत्र अमृतस्य चक्षणम् ततस् कुष्ठः अजायत ।स कुष्ठः विश्व-भेषजः साकम् सोमेन तिष्ठति । तक्मानम् सर्व नाशय सर्वाः च यातुधान्य ॥७॥
hiraṇyayī nauḥ acarat hiraṇya-bandhanā divi .tatra amṛtasya cakṣaṇam tatas kuṣṭhaḥ ajāyata .sa kuṣṭhaḥ viśva-bheṣajaḥ sākam somena tiṣṭhati . takmānam sarva nāśaya sarvāḥ ca yātudhānya ..7..

यत्र नावप्रभ्रंशनं यत्र हिमवतः शिरः ।तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । तक्मानं सर्व नाशय सर्वाश्च यातुधान्य ॥८॥
यत्र नाव-प्रभ्रंशनम् यत्र हिमवतः शिरः ।तत्र अमृतस्य चक्षणम् ततस् कुष्ठः अजायत ।स कुष्ठः विश्व-भेषजः साकम् सोमेन तिष्ठति । तक्मानम् सर्व नाशय सर्वाः च यातुधान्य ॥८॥
yatra nāva-prabhraṃśanam yatra himavataḥ śiraḥ .tatra amṛtasya cakṣaṇam tatas kuṣṭhaḥ ajāyata .sa kuṣṭhaḥ viśva-bheṣajaḥ sākam somena tiṣṭhati . takmānam sarva nāśaya sarvāḥ ca yātudhānya ..8..

यं त्वा वेद पूर्व इक्ष्वाको यं वा त्वा कुष्ठ काम्यः ।यं वा वसो यमात्स्यस्तेनासि विश्वभेषजः ॥९॥
यम् त्वा वेद पूर्वः इक्ष्वाकः यम् वा त्वा कुष्ठ काम्यः ।यम् वा वसो यम् अत्स्यः तेन असि विश्व-भेषजः ॥९॥
yam tvā veda pūrvaḥ ikṣvākaḥ yam vā tvā kuṣṭha kāmyaḥ .yam vā vaso yam atsyaḥ tena asi viśva-bheṣajaḥ ..9..

शीर्षशोकं तृतीयकं सदंदिर्यश्च हायनः ।तक्मानं विश्वधावीर्याधराञ्चं परा सुव ॥१०॥
शीर्षशोकम् तृतीयकम् स दंदिर्यः च हायनः ।तक्मानम् विश्वधा वीर्य-अधराञ्चम् परा सुव ॥१०॥
śīrṣaśokam tṛtīyakam sa daṃdiryaḥ ca hāyanaḥ .takmānam viśvadhā vīrya-adharāñcam parā suva ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In