| |
|

This overlay will guide you through the buttons:

यन् मे छिद्रं मनसो यच्च वाचः सरस्वती मन्युमन्तं जगाम ।विश्वैस्तद्देवैः सह संविदानः सं दधातु बृहस्पतिः ॥१॥
यत् मे छिद्रम् मनसः यत् च वाचः सरस्वती मन्युमन्तम् जगाम ।विश्वैः तत् देवैः सह संविदानः सम् दधातु बृहस्पतिः ॥१॥
yat me chidram manasaḥ yat ca vācaḥ sarasvatī manyumantam jagāma .viśvaiḥ tat devaiḥ saha saṃvidānaḥ sam dadhātu bṛhaspatiḥ ..1..

मा न आपो मेधां मा ब्रह्म प्र मथिष्टन ।सुष्यदा यूयं स्यन्दध्वमुपहूतोऽहं सुमेधा वर्चस्वी ॥२॥
मा नः आपः मेधाम् मा ब्रह्म प्र मथिष्टन ।सुष्यदा यूयम् स्यन्दध्वम् उपहूतः अहम् सुमेधाः वर्चस्वी ॥२॥
mā naḥ āpaḥ medhām mā brahma pra mathiṣṭana .suṣyadā yūyam syandadhvam upahūtaḥ aham sumedhāḥ varcasvī ..2..

मा नो मेधां मा नो दीक्षां मा नो हिंसिष्टं यत्तपः ।शिवा नः शं सन्त्वायुषे शिवा भवन्तु मातरः ॥३॥
मा नः मेधाम् मा नः दीक्षाम् मा नः हिंसिष्टम् यत् तपः ।शिवाः नः शम् सन्तु आयुषे शिवाः भवन्तु मातरः ॥३॥
mā naḥ medhām mā naḥ dīkṣām mā naḥ hiṃsiṣṭam yat tapaḥ .śivāḥ naḥ śam santu āyuṣe śivāḥ bhavantu mātaraḥ ..3..

या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः ।तामस्मे रासतामिषम् ॥४॥
या नः पीपरत् अश्विना ज्योतिष्मती तमः तिरस् ।ताम् अस्मे रासत आमिषम् ॥४॥
yā naḥ pīparat aśvinā jyotiṣmatī tamaḥ tiras .tām asme rāsata āmiṣam ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In