| |
|

This overlay will guide you through the buttons:

ब्रह्म होता ब्रह्म यज्ञा ब्रह्मणा स्वरवो मिताः ।अध्वर्युर्ब्रह्मणो जातो ब्रह्मणोऽन्तर्हितं हविः ॥१॥
ब्रह्म होता ब्रह्म यज्ञाः ब्रह्मणा स्वरवः मिताः ।अध्वर्युः ब्रह्मणः जातः ब्रह्मणः अन्तर्हितम् हविः ॥१॥
brahma hotā brahma yajñāḥ brahmaṇā svaravaḥ mitāḥ .adhvaryuḥ brahmaṇaḥ jātaḥ brahmaṇaḥ antarhitam haviḥ ..1..

ब्रह्म स्रुचो घृतवतीर्ब्रह्मणा वेदिरुद्धिता ।ब्रह्म यज्ञस्य तत्त्वं च ऋत्विजो ये हविष्कृतः ।शमिताय स्वाहा ॥२॥
ब्रह्म स्रुचः घृतवतीः ब्रह्मणा वेदिः उद्धिता ।ब्रह्म यज्ञस्य तत्त्वम् च ऋत्विजः ये हविष्कृतः ।शमिताय स्वाहा ॥२॥
brahma srucaḥ ghṛtavatīḥ brahmaṇā vediḥ uddhitā .brahma yajñasya tattvam ca ṛtvijaḥ ye haviṣkṛtaḥ .śamitāya svāhā ..2..

अंहोमुचे प्र भरे मनीषामा सुत्राव्णे सुमतिमावृणानः ।इममिन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः ॥३॥
अंहः-मुचे प्र भरे मनीषाम् आ सुत्राव्णे सुमतिम् आवृणानः ।इमम् इन्द्र प्रति हव्यम् गृभाय सत्याः सन्तु यजमानस्य कामाः ॥३॥
aṃhaḥ-muce pra bhare manīṣām ā sutrāvṇe sumatim āvṛṇānaḥ .imam indra prati havyam gṛbhāya satyāḥ santu yajamānasya kāmāḥ ..3..

अंहोमुचं व्र्षभं यज्ञियानां विराजन्तं प्रथममध्वराणम् ।अपां नपातमश्विना हुवे धिय इन्द्रियेण त इन्द्रियं दत्तमोजः ॥४॥
अंहः-मुचम् व्र्षभम् यज्ञियानाम् विराजन्तम् प्रथमम् अध्वराणम् ।अपाम् नपातम् अश्विना हुवे धिये इन्द्रियेण ते इन्द्रियम् दत्तम् ओजः ॥४॥
aṃhaḥ-mucam vrṣabham yajñiyānām virājantam prathamam adhvarāṇam .apām napātam aśvinā huve dhiye indriyeṇa te indriyam dattam ojaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In