| |
|

This overlay will guide you through the buttons:

आयुषोऽसि प्रतरणं विप्रं भेषजमुच्यसे ।तदाञ्जन त्वं शंताते शमापो अभयं कृतम् ॥१॥
आयुषः असि प्रतरणम् विप्रम् भेषजम् उच्यसे ।तदा अञ्जन त्वम् शंताते शम-अपः अभयम् कृतम् ॥१॥
āyuṣaḥ asi prataraṇam vipram bheṣajam ucyase .tadā añjana tvam śaṃtāte śama-apaḥ abhayam kṛtam ..1..

यो हरिमा जायान्योऽङ्गभेदो विषल्पकः ।सर्वं ते यक्ष्ममङ्गेभ्यो बहिर्निर्हन्त्वाञ्जनम् ॥२॥
यः हरिमा जाया-अन्यः अङ्ग-भेदः विषल्पकः ।सर्वम् ते यक्ष्मम् अङ्गेभ्यः बहिस् निर्हन्तु अञ्जनम् ॥२॥
yaḥ harimā jāyā-anyaḥ aṅga-bhedaḥ viṣalpakaḥ .sarvam te yakṣmam aṅgebhyaḥ bahis nirhantu añjanam ..2..

आञ्जनं पृथिव्यां जातं भद्रं पुरुषजीवनम् ।कृणोत्वप्रमायुकं रथजूतिमनागसम् ॥३॥
आञ्जनम् पृथिव्याम् जातम् भद्रम् पुरुष-जीवनम् ।कृणोतु अप्रमायुकम् रथ-जूतिम् अनागसम् ॥३॥
āñjanam pṛthivyām jātam bhadram puruṣa-jīvanam .kṛṇotu apramāyukam ratha-jūtim anāgasam ..3..

प्राण प्राणं त्रायस्वासो असवे मृड ।निर्ऋते निर्ऋत्या नः पाशेभ्यो मुञ्च ॥४॥
प्राण प्राणम् त्रायस्व असो असवे मृड ।निरृते निरृत्याः नः पाशेभ्यः मुञ्च ॥४॥
prāṇa prāṇam trāyasva aso asave mṛḍa .nirṛte nirṛtyāḥ naḥ pāśebhyaḥ muñca ..4..

सिन्धोर्गर्भोऽसि विद्युतां पुष्पम् ।वातः प्राणः सूर्यश्चक्षुर्दिवस्पयः ॥५॥
सिन्धोः गर्भः असि विद्युताम् पुष्पम् ।वातः प्राणः सूर्यः चक्षुः दिवस्पयः ॥५॥
sindhoḥ garbhaḥ asi vidyutām puṣpam .vātaḥ prāṇaḥ sūryaḥ cakṣuḥ divaspayaḥ ..5..

देवाञ्जन त्रैककुद परि मा पाहि विश्वतः ।न त्वा तरन्त्योषधयो बाह्याः पर्वतीया उत ॥६॥
देवाञ्जन त्रैककुद परि मा पाहि विश्वतस् ।न त्वा तरन्ति ओषधयः बाह्याः पर्वतीयाः उत ॥६॥
devāñjana traikakuda pari mā pāhi viśvatas .na tvā taranti oṣadhayaḥ bāhyāḥ parvatīyāḥ uta ..6..

वीदं मध्यमवासृपद्रक्षोहामीवचातनः ।अमीवाः सर्वाश्चातयन् नाशयदभिभा इतः ॥७॥
वि इदम् मध्यम् अवासृपत् रक्षः-हा अमीव-चातनः ।अमीवाः सर्वाः चातयत् नाशयत् अभिभाः इतस् ॥७॥
vi idam madhyam avāsṛpat rakṣaḥ-hā amīva-cātanaḥ .amīvāḥ sarvāḥ cātayat nāśayat abhibhāḥ itas ..7..

बह्विदं राजन् वरुणानृतमाह पूरुषः ।तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः ॥८॥
बहु इदम् राजन् वरुण अनृतम् आह पूरुषः ।तस्मात् सहस्र-वीर्य मुञ्च नः परि अंहसः ॥८॥
bahu idam rājan varuṇa anṛtam āha pūruṣaḥ .tasmāt sahasra-vīrya muñca naḥ pari aṃhasaḥ ..8..

यदापो अघ्न्या इति वरुणेति यदूचिम ।तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः ॥९॥
यदा अपः अघ्न्याः इति वरुण इति यत् ऊचिम ।तस्मात् सहस्र-वीर्य मुञ्च नः परि अंहसः ॥९॥
yadā apaḥ aghnyāḥ iti varuṇa iti yat ūcima .tasmāt sahasra-vīrya muñca naḥ pari aṃhasaḥ ..9..

मित्रश्च त्वा वरुणश्चानुप्रेयतुराञ्जन ।तौ त्वानुगत्य दूरं भोगाय पुनरोहतुः ॥१०॥
मित्रः च त्वा वरुणः च अनुप्रेयतुः आञ्जन ।तौ त्वा अनुगत्य दूरम् भोगाय पुनर् ओहतुः ॥१०॥
mitraḥ ca tvā varuṇaḥ ca anupreyatuḥ āñjana .tau tvā anugatya dūram bhogāya punar ohatuḥ ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In