| |
|

This overlay will guide you through the buttons:

ऋणादृणमिव सं नय कृत्यां कृत्याकृतो गृहम् ।चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणाञ्जन ॥१॥
ऋणात् ऋणम् इव सम् नय कृत्याम् कृत्या-कृतः गृहम् ।चक्षुः मन्त्रस्य दुर्हार्दः पृष्टीः अपि ॥१॥
ṛṇāt ṛṇam iva sam naya kṛtyām kṛtyā-kṛtaḥ gṛham .cakṣuḥ mantrasya durhārdaḥ pṛṣṭīḥ api ..1..

यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे ।अनामगस्तं च दुर्हार्दः प्रियः प्रति मुञ्चताम् ॥२॥
यत् अस्मासु दुष्वप्न्यम् यत् गोषु यत् च नः गृहे ।अनामगः तम् च दुर्हार्दः प्रियः प्रति मुञ्चताम् ॥२॥
yat asmāsu duṣvapnyam yat goṣu yat ca naḥ gṛhe .anāmagaḥ tam ca durhārdaḥ priyaḥ prati muñcatām ..2..

अपामूर्ज ओजसो वावृधानमग्नेर्जातमधि जातवेदसः ।चतुर्वीरं पर्वतीयं यदाञ्जनं दिशः प्रदिशः करदिच्छिवास्ते ॥३॥
अपाम् ऊर्जः ओजसः वावृधानम् अग्नेः जातम् अधि जातवेदसः ।चतुर्वीरम् पर्वतीयम् यत् आञ्जनम् दिशः प्रदिशः करदित्-शिवा आस्ते ॥३॥
apām ūrjaḥ ojasaḥ vāvṛdhānam agneḥ jātam adhi jātavedasaḥ .caturvīram parvatīyam yat āñjanam diśaḥ pradiśaḥ karadit-śivā āste ..3..

चतुर्वीरं बध्यत आञ्जनं ते सर्वा दिशो अभयास्ते भवन्तु ।ध्रुवस्तिष्ठासि सवितेव चार्य इमा विशो अभि हरन्तु ते बलिम् ॥४॥
चतुर्-वीरम् बध्यते आञ्जनम् ते सर्वाः दिशः अभयाः ते भवन्तु ।ध्रुवः तिष्ठासि सविता इव च आर्यः इमाः विशः अभि हरन्तु ते बलिम् ॥४॥
catur-vīram badhyate āñjanam te sarvāḥ diśaḥ abhayāḥ te bhavantu .dhruvaḥ tiṣṭhāsi savitā iva ca āryaḥ imāḥ viśaḥ abhi harantu te balim ..4..

आक्ष्वैकं मणिमेकं क्र्णुष्व स्नाह्येकेना पिबैकमेषाम् ।चतुर्वीरं नैर्ऋतेभ्यश्चतुर्भ्यो ग्राह्या बन्धेभ्यः परि पात्वस्मान् ॥५॥
आक्ष्व एकम् मणिम् एकम् स्नाहि एकेन आ पिब एकम् एषाम् ।चतुर्-वीरम् नैरृतेभ्यः चतुर्भ्यः ग्राह्याः बन्धेभ्यः परि पातु अस्मान् ॥५॥
ākṣva ekam maṇim ekam snāhi ekena ā piba ekam eṣām .catur-vīram nairṛtebhyaḥ caturbhyaḥ grāhyāḥ bandhebhyaḥ pari pātu asmān ..5..

अग्निर्माग्निनावतु प्राणायापानायायुषे वर्चस ओजसे ।तेजसे स्वस्तये सुभूतये स्वाहा ॥६॥
अग्निः मा अग्निना अवतु प्राणाय अपानाय आयुषे वर्चसे ओजसे ।तेजसे स्वस्तये सुभूतये स्वाहा ॥६॥
agniḥ mā agninā avatu prāṇāya apānāya āyuṣe varcase ojase .tejase svastaye subhūtaye svāhā ..6..

इन्द्रो मेन्द्रियेणावतु प्राणायापानायायुषे वर्चस ओजसे ।तेजसे स्वस्तये सुभूतये स्वाहा ॥७॥
इन्द्रः मा इन्द्रियेण अवतु प्राणाय अपानाय आयुषे वर्चसे ओजसे ।तेजसे स्वस्तये सुभूतये स्वाहा ॥७॥
indraḥ mā indriyeṇa avatu prāṇāya apānāya āyuṣe varcase ojase .tejase svastaye subhūtaye svāhā ..7..

सोमो मा सौम्येनावतु प्राणायापानायायुषे वर्चस ओजसे ।तेजसे स्वस्तये सुभूतये स्वाहा ॥८॥
सोमः मा सौम्येन अवतु प्राणाय अपानाय आयुषे वर्चसे ओजसे ।तेजसे स्वस्तये सुभूतये स्वाहा ॥८॥
somaḥ mā saumyena avatu prāṇāya apānāya āyuṣe varcase ojase .tejase svastaye subhūtaye svāhā ..8..

भगो मा भगेनावतु प्राणायापानायायुषे वर्चस ओजसे ।तेजसे स्वस्तये सुभूतये स्वाहा ॥९॥
भगः मा भगेन अवतु प्राणाय अपानाय आयुषे वर्चसे ओजसे ।तेजसे स्वस्तये सुभूतये स्वाहा ॥९॥
bhagaḥ mā bhagena avatu prāṇāya apānāya āyuṣe varcase ojase .tejase svastaye subhūtaye svāhā ..9..

मरुतो मा गणैरवन्तु प्राणायापानायुषे वर्चस ओजसे तेजसे ।स्वस्तये सुभूतये स्वाहा ॥१०॥
मरुतः मा गणैः अवन्तु प्राणाय अपान-आयुषे वर्चसे ओजसे तेजसे ।स्वस्तये सुभूतये स्वाहा ॥१०॥
marutaḥ mā gaṇaiḥ avantu prāṇāya apāna-āyuṣe varcase ojase tejase .svastaye subhūtaye svāhā ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In