| |
|

This overlay will guide you through the buttons:

प्रजापतिष्ट्वा बध्नात्प्रथममस्तृतं वीर्याय कम् ।तत्ते बध्नाम्यायुषे वर्चस ओजसे च बलाय चास्तृतस्त्वाभि रक्षतु ॥१॥
प्रजापतिः त्वा बध्नात् प्रथमम् अस्तृतम् वीर्याय कम् ।तत् ते बध्नामि आयुषे वर्चसे ओजसे च बलाय च अस्तृतः त्वा अभि रक्षतु ॥१॥
prajāpatiḥ tvā badhnāt prathamam astṛtam vīryāya kam .tat te badhnāmi āyuṣe varcase ojase ca balāya ca astṛtaḥ tvā abhi rakṣatu ..1..

ऊर्ध्वस्तिष्ठतु रक्षन्न् अप्रमादमस्तृतेमं मा त्वा दभन् पणयो यातुधानाः ।इन्द्र इव दस्यून् अव धूनुष्व पृतन्यतः सर्वां छत्रून् वि षहस्वास्तृतस्त्वाभि रक्षतु ॥२॥
ऊर्ध्वः तिष्ठतु रक्षन् अप्रमादम् अस्तृत इमम् मा त्वा दभन् पणयः यातुधानाः ।इन्द्रः इव दस्यून् अव धूनुष्व पृतन्यतः सर्वान् शत्रून् वि सहस्व अस्तृतः त्वा अभि रक्षतु ॥२॥
ūrdhvaḥ tiṣṭhatu rakṣan apramādam astṛta imam mā tvā dabhan paṇayaḥ yātudhānāḥ .indraḥ iva dasyūn ava dhūnuṣva pṛtanyataḥ sarvān śatrūn vi sahasva astṛtaḥ tvā abhi rakṣatu ..2..

शतं च न प्रहरन्तो निघ्नन्तो न तस्तिरे ।तस्मिन्न् इन्द्रः पर्यदत्त चक्षुः प्राणमथो बलमस्तृतस्त्वाभि रक्षतु ॥३॥
शतम् च न प्रहरन्तः निघ्नन्तः न तस्तिरे ।तस्मिन् इन्द्रः पर्यदत्त चक्षुः प्राणम् अथो बलम् अस्तृतः त्वा अभि रक्षतु ॥३॥
śatam ca na praharantaḥ nighnantaḥ na tastire .tasmin indraḥ paryadatta cakṣuḥ prāṇam atho balam astṛtaḥ tvā abhi rakṣatu ..3..

इन्द्रस्य त्वा वर्मणा परि धापयामो यो देवानामधिराजो बभूव ।पुनस्त्वा देवाः प्र णयन्तु सर्वेऽस्तृतस्त्वाभि रक्षतु ॥४॥
इन्द्रस्य त्वा वर्मणा परि धापयामः यः देवानाम् अधिराजः बभूव ।पुनर् त्वा देवाः प्र नयन्तु सर्वे अ स्तृतः त्वा अभि रक्षतु ॥४॥
indrasya tvā varmaṇā pari dhāpayāmaḥ yaḥ devānām adhirājaḥ babhūva .punar tvā devāḥ pra nayantu sarve a stṛtaḥ tvā abhi rakṣatu ..4..

अस्मिन् मणावेकशतं वीर्याणि सहस्रं प्राणा अस्मिन्न् अस्तृते ।व्याघ्रः शत्रून् अभि तिष्ठ सर्वान् यस्त्वा पृतन्यादधरः सो अस्त्वस्तृतस्त्वाभि रक्षतु ॥५॥
अस्मिन् मणौ एकशतम् वीर्याणि सहस्रम् प्राणाः अस्मिन् अस्तृते ।व्याघ्रः शत्रून् अभि तिष्ठ सर्वान् यः त्वा पृतन्यात् अधरः सः अस्तु अस्तृतः त्वा अभि रक्षतु ॥५॥
asmin maṇau ekaśatam vīryāṇi sahasram prāṇāḥ asmin astṛte .vyāghraḥ śatrūn abhi tiṣṭha sarvān yaḥ tvā pṛtanyāt adharaḥ saḥ astu astṛtaḥ tvā abhi rakṣatu ..5..

घृतादुल्लुप्तो मधुमान् पयस्वान्त्सहस्रप्राणः शतयोनिर्वयोधाः ।शम्भूश्च मयोभूश्चोर्जस्वांश्च पयस्वांश्चास्तृतस्त्वाभि रक्षतु ॥६॥
घृतात् उल्लुप्तः मधुमान् पयस्वान् सहस्र-प्राणः शत-योनिः वयोधाः ।शम्भूः च मयोभूः च ऊर्जस्वान् च पयस्वान् च अस्तृतः त्वा अभि रक्षतु ॥६॥
ghṛtāt ulluptaḥ madhumān payasvān sahasra-prāṇaḥ śata-yoniḥ vayodhāḥ .śambhūḥ ca mayobhūḥ ca ūrjasvān ca payasvān ca astṛtaḥ tvā abhi rakṣatu ..6..

यथा त्वमुत्तरोऽसो असपत्नः सपत्नहा ।सजातानामसद्वशी तथा त्वा सविता करदस्तृतस्त्वाभि रक्षतु ॥७॥
यथा त्वम् उत्तरः असः असपत्नः सपत्न-हा ।सजातानाम् असत्-वशी तथा त्वा सविता कर-दः तृतः त्वा अभि रक्षतु ॥७॥
yathā tvam uttaraḥ asaḥ asapatnaḥ sapatna-hā .sajātānām asat-vaśī tathā tvā savitā kara-daḥ tṛtaḥ tvā abhi rakṣatu ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In