| |
|

This overlay will guide you through the buttons:

आ रात्रि पार्थिवं रजः पितुरप्रायि धामभिः ।दिवः सदांसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ॥१॥
आ रात्रि पार्थिवम् रजः पितुः अप्रायि धामभिः ।दिवः सदांसि बृहती वि तिष्ठसे आ त्वेषम् वर्तते तमः ॥१॥
ā rātri pārthivam rajaḥ pituḥ aprāyi dhāmabhiḥ .divaḥ sadāṃsi bṛhatī vi tiṣṭhase ā tveṣam vartate tamaḥ ..1..

न यस्याः पारं ददृशे न योयुवद्विश्वमस्यां नि विशते यदेजति ।अरिष्टासस्त उर्वि तमस्वति रात्रि पारमशीमहि भद्रे पारमशीमहि ॥२॥
न यस्याः पारम् ददृशे न योयुवत् विश्वम् अस्याम् नि विशते यत् एजति ।अरिष्टासः ते उर्वि तमस्वति रात्रि पारम् अशीमहि भद्रे पारम् अशीमहि ॥२॥
na yasyāḥ pāram dadṛśe na yoyuvat viśvam asyām ni viśate yat ejati .ariṣṭāsaḥ te urvi tamasvati rātri pāram aśīmahi bhadre pāram aśīmahi ..2..

ये ते रात्रि नृचक्षसो द्रष्टारो नवतिर्नव ।अशीतिः सन्त्यष्टा उतो ते सप्त सप्ततिः ॥३॥
ये ते रात्रि नृ-चक्षसः द्रष्टारः नवतिः नव ।अशीतिः सन्ति अष्ट उत उ ते सप्त सप्ततिः ॥३॥
ye te rātri nṛ-cakṣasaḥ draṣṭāraḥ navatiḥ nava .aśītiḥ santi aṣṭa uta u te sapta saptatiḥ ..3..

षष्टिश्च षट्च रेवति पञ्चाशत्पञ्च सुम्नयि ।चत्वारश्चत्वारिंशच्च त्रयस्त्रिंशच्च वाजिनि ॥४॥
षष्टिः च षड् च रेवति पञ्चाशत् पञ्च सुम्नयि ।चत्वारः चत्वारिंशत् च त्रयस्त्रिंशत् च वाजिनि ॥४॥
ṣaṣṭiḥ ca ṣaḍ ca revati pañcāśat pañca sumnayi .catvāraḥ catvāriṃśat ca trayastriṃśat ca vājini ..4..

द्वौ च ते विंशतिश्च ते रात्र्येकादशावमाः ।तेभिर्नो अद्य पायुभिर्नु पाहि दुहितर्दिवः ॥५॥
द्वौ च ते विंशतिः च ते रात्री-एकादश अवमाः ।तेभिः नः अद्य पायुभिः नु पाहि दुहितर् दिवः ॥५॥
dvau ca te viṃśatiḥ ca te rātrī-ekādaśa avamāḥ .tebhiḥ naḥ adya pāyubhiḥ nu pāhi duhitar divaḥ ..5..

रक्षा माकिर्नो अघशंस ईशत मा नो दुःशंस ईशत ।मा नो अद्य गवां स्तेनो मावीनां वृक ईशत ॥६॥
रक्षा माकिर् नः अघ-शंसः ईशत मा नः दुःशंसः ईशत ।मा नः अद्य गवाम् स्तेनः मा अवीनाम् वृकः ईशत ॥६॥
rakṣā mākir naḥ agha-śaṃsaḥ īśata mā naḥ duḥśaṃsaḥ īśata .mā naḥ adya gavām stenaḥ mā avīnām vṛkaḥ īśata ..6..

माश्वानां भद्रे तस्करो मा नृणां यातुधान्यः ।परमेभिः पथिभि स्तेनो धावतु तस्करः ।परेण दत्वती रज्जुः परेणाघायुरर्षतु ॥७॥
मा अश्वानाम् भद्रे तस्करः मा नृणाम् यातुधान्यः ।परमेभिः पथिभिः स्तेनः धावतु तस्करः ।परेण दत्वती रज्जुः परेण अघायुः अर्षतु ॥७॥
mā aśvānām bhadre taskaraḥ mā nṛṇām yātudhānyaḥ .paramebhiḥ pathibhiḥ stenaḥ dhāvatu taskaraḥ .pareṇa datvatī rajjuḥ pareṇa aghāyuḥ arṣatu ..7..

अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु ।हनू वृकस्य जम्भया स्तेनं द्रुपदे जहि ॥८॥
अध रात्रि तृष्ट-धूमम् अशीर्षाणम् अहिम् कृणु ।हनू वृकस्य जम्भय स्तेनम् द्रुपदे जहि ॥८॥
adha rātri tṛṣṭa-dhūmam aśīrṣāṇam ahim kṛṇu .hanū vṛkasya jambhaya stenam drupade jahi ..8..

त्वयि रात्रि वसामसि स्वपिष्यामसि जागृहि ।गोभ्यो नः शर्म यछाश्वेभ्यः पुरुषेभ्यः ॥९॥
त्वयि रात्रि वसामसि स्वपिष्यामसि जागृहि ।गोभ्यः नः शर्म यच्छ अश्वेभ्यः पुरुषेभ्यः ॥९॥
tvayi rātri vasāmasi svapiṣyāmasi jāgṛhi .gobhyaḥ naḥ śarma yaccha aśvebhyaḥ puruṣebhyaḥ ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In