| |
|

This overlay will guide you through the buttons:

इषिरा योषा युवतिर्दमूना रात्री देवस्य सवितुर्भगस्य ।अश्वक्षभा सुहवा संभृतश्रीरा पप्रौ द्यावापृथिवी महित्वा ॥१॥
इषिरा योषा युवतिः दमूनाः रात्री देवस्य सवितुः भगस्य ।अश्व-क्षभा सु हवा संभृत-श्रीरा पप्रौ द्यावापृथिवी महित्वा ॥१॥
iṣirā yoṣā yuvatiḥ damūnāḥ rātrī devasya savituḥ bhagasya .aśva-kṣabhā su havā saṃbhṛta-śrīrā paprau dyāvāpṛthivī mahitvā ..1..

अति विश्वान्यरुहद्गम्भिरो वर्षिष्ठमरुहन्त श्रविष्ठाः ।उशती रात्र्यनु सा भद्राभि तिष्ठते मित्र इव स्वधाभिः ॥२॥
अति विश्वानि अरुहत् गम्भिरः वर्षिष्ठम् अरुहन्त श्रविष्ठाः ।उशती रात्री अनु सा भद्रा अभि तिष्ठते मित्रः इव स्वधाभिः ॥२॥
ati viśvāni aruhat gambhiraḥ varṣiṣṭham aruhanta śraviṣṭhāḥ .uśatī rātrī anu sā bhadrā abhi tiṣṭhate mitraḥ iva svadhābhiḥ ..2..

वर्ये वन्दे सुभगे सुजात आजगन् रात्रि सुमना इह स्याम् ।अस्मांस्त्रायस्व नर्याणि जाता अथो यानि गव्यानि पुष्ट्या ॥३॥
वर्ये वन्दे सुभगे सुजाते आजगन् रात्रि सुमनाः इह स्याम् ।अस्मान् त्रायस्व नर्याणि जाता अथ उ यानि गव्यानि पुष्ट्या ॥३॥
varye vande subhage sujāte ājagan rātri sumanāḥ iha syām .asmān trāyasva naryāṇi jātā atha u yāni gavyāni puṣṭyā ..3..

सिंहस्य रात्र्युशती पींषस्य व्याघ्रस्य द्वीपिनो वर्च आ ददे ।अश्वस्य ब्रध्नं पुरुषस्य मायुं पुरु रूपाणि कृणुषे विभाती ॥४॥
सिंहस्य रात्री उशती पींषस्य व्याघ्रस्य द्वीपिनः वर्चः आ ददे ।अश्वस्य ब्रध्नम् पुरुषस्य मायुम् पुरु रूपाणि कृणुषे विभाती ॥४॥
siṃhasya rātrī uśatī pīṃṣasya vyāghrasya dvīpinaḥ varcaḥ ā dade .aśvasya bradhnam puruṣasya māyum puru rūpāṇi kṛṇuṣe vibhātī ..4..

शिवां रात्रिमनुसूर्यं च हिमस्य माता सुहवा नो अस्तु ।अस्य स्तोमस्य सुभगे नि बोध येन त्वा वन्दे विश्वासु दिक्षु ॥५॥
शिवाम् रात्रिम् अनुसूर्यम् च हिमस्य माता सु हवा नः अस्तु ।अस्य स्तोमस्य सुभगे नि बोध येन त्वा वन्दे विश्वासु दिक्षु ॥५॥
śivām rātrim anusūryam ca himasya mātā su havā naḥ astu .asya stomasya subhage ni bodha yena tvā vande viśvāsu dikṣu ..5..

स्तोमस्य नो विभावरि रात्रि राजेव जोषसे ।असाम सर्ववीरा भवाम सर्ववेदसो व्युच्छन्तीरनूषसः ॥६॥
स्तोमस्य नः विभावरि रात्रि राजा इव जोषसे ।असाम सर्व-वीराः भवाम सर्व-वेदसः व्युच्छन्तीः अनु उषसः ॥६॥
stomasya naḥ vibhāvari rātri rājā iva joṣase .asāma sarva-vīrāḥ bhavāma sarva-vedasaḥ vyucchantīḥ anu uṣasaḥ ..6..

शम्या ह नाम दधिषे मम दिप्सन्ति ये धना ।रात्रीहि तान् असुतपा य स्तेनो न विद्यते यत्पुनर्न विद्यते ॥७॥
शम्या ह नाम दधिषे मम दिप्सन्ति ये धना ।रात्रीहि तान् अ सुत-पाः यः स्तेनः न विद्यते यत् पुनर् न विद्यते ॥७॥
śamyā ha nāma dadhiṣe mama dipsanti ye dhanā .rātrīhi tān a suta-pāḥ yaḥ stenaḥ na vidyate yat punar na vidyate ..7..

भद्रासि रात्रि चमसो न विष्टो विष्वङ्गोरूपं युवतिर्बिभर्षि ।चक्षुष्मती मे उशती वपूम्षि प्रति त्वं दिव्या न क्षाममुक्थाः ॥८॥
भद्रा असि रात्रि चमसः न विष्टः विषु-अङ्गोरूपम् युवतिः बिभर्षि ।चक्षुष्मती मे उशती वपूम्षि प्रति त्वम् दिव्या न क्षामम् उक्थाः ॥८॥
bhadrā asi rātri camasaḥ na viṣṭaḥ viṣu-aṅgorūpam yuvatiḥ bibharṣi .cakṣuṣmatī me uśatī vapūmṣi prati tvam divyā na kṣāmam ukthāḥ ..8..

यो अद्य स्तेन आयत्यघायुर्मर्त्यो रिपुः ।रात्री तस्य प्रतीत्य प्र ग्रीवाः प्र शिरो हनत्॥९॥
यः अद्य स्तेनः आयति अघायुः मर्त्यः रिपुः ।रात्री तस्य प्रतीत्य प्र ग्रीवाः प्र शिरः हनत्॥९॥
yaḥ adya stenaḥ āyati aghāyuḥ martyaḥ ripuḥ .rātrī tasya pratītya pra grīvāḥ pra śiraḥ hanat..9..

प्र पादौ न यथायति प्र हस्तौ न यथाशिषत्।यो मलिम्लुरुपायति स संपिष्टो अपायति ।अपायति स्वपायति शुष्के स्थाणावपायति ॥१०॥
प्र पादौ न यथा एयति प्र हस्तौ न यथा अशिषत्।यः मलिम्लुः उपायति स संपिष्टः अपायति ।अपायति सु अपायति शुष्के स्थाणौ अपायति ॥१०॥
pra pādau na yathā eyati pra hastau na yathā aśiṣat.yaḥ malimluḥ upāyati sa saṃpiṣṭaḥ apāyati .apāyati su apāyati śuṣke sthāṇau apāyati ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In