| |
|

This overlay will guide you through the buttons:

अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु ।अक्षौ वृकस्य निर्जह्यास्तेन तं द्रुपदे जहि ॥१॥
अध रात्रि तृष्ट-धूमम् अशीर्षाणम् अहिम् कृणु ।अक्षौ वृकस्य निर्जह्याः तेन तम् द्रुपदे जहि ॥१॥
adha rātri tṛṣṭa-dhūmam aśīrṣāṇam ahim kṛṇu .akṣau vṛkasya nirjahyāḥ tena tam drupade jahi ..1..

ये ते रात्र्यनड्वाहस्तीक्ष्णशृङ्गाः स्वाशवः ।तेभिर्नो अद्य पारयाति दुर्गाणि विश्वहा ॥२॥
ये ते रात्रि-अनड्वाहः तीक्ष्ण-शृङ्गाः सु आशवः ।तेभिः नः अद्य पारयाति दुर्गाणि विश्वहा ॥२॥
ye te rātri-anaḍvāhaḥ tīkṣṇa-śṛṅgāḥ su āśavaḥ .tebhiḥ naḥ adya pārayāti durgāṇi viśvahā ..2..

रात्रिंरात्रिमरिष्यन्तस्तरेम तन्वा वयम् ।गम्भीरमप्लवा इव न तरेयुररातयः ॥३॥
रात्रिम् रात्रिम् अरिष्यन्तः तरेम तन्वा वयम् ।गम्भीरम् अप्लवाः इव न तरेयुः अरातयः ॥३॥
rātrim rātrim ariṣyantaḥ tarema tanvā vayam .gambhīram aplavāḥ iva na tareyuḥ arātayaḥ ..3..

यथा शाम्याकः प्रपतन्न् अपवान् नानुविद्यते ।एवा रात्रि प्र पातय यो अस्मामभ्यघायति ॥४॥
यथा शाम्याकः प्रपतन् अपवान् न अनुविद्यते ।एव रात्रि प्र पातय यः अस्माम् अभ्यघायति ॥४॥
yathā śāmyākaḥ prapatan apavān na anuvidyate .eva rātri pra pātaya yaḥ asmām abhyaghāyati ..4..

अप स्तेनं वासयो गोअजमुत तस्करम् ।अथो यो अर्वतः शिरोऽभिधाय निनीषति ॥५॥
अप स्तेनम् वासयः गो-अजम् उत तस्करम् ।अथ उ यः अर्वतः शिरः अभिधाय निनीषति ॥५॥
apa stenam vāsayaḥ go-ajam uta taskaram .atha u yaḥ arvataḥ śiraḥ abhidhāya ninīṣati ..5..

यदद्य रात्रि सुभगे विभजन्त्ययो वसु ।यदेतदस्मान् भोजय यथेदन्यान् उपायसि ॥६॥
यत् अद्य रात्रि सुभगे विभजन्ति अयः वसु ।यत् एतत् अस्मान् भोजय यथा इद् अन्यान् उपायसि ॥६॥
yat adya rātri subhage vibhajanti ayaḥ vasu .yat etat asmān bhojaya yathā id anyān upāyasi ..6..

उषसे नः परि देहि सर्वान् रात्र्यनागसः ।उषा नो अह्ने आ भजादहस्तुभ्यं विभावरि ॥७॥
उषसे नः परि देहि सर्वान् रात्रि अनागसः ।उषाः नः अह्ने आ भजात् अहर् तुभ्यम् विभावरि ॥७॥
uṣase naḥ pari dehi sarvān rātri anāgasaḥ .uṣāḥ naḥ ahne ā bhajāt ahar tubhyam vibhāvari ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In