| |
|

This overlay will guide you through the buttons:

कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः ।तमा रोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा ॥१॥
कालः अश्वः वहति सप्त-रश्मिः सहस्र-अक्षः अजरः भूरि-रेताः ।तमा रोहन्ति कवयः विपश्चितः तस्य चक्रा भुवनानि विश्वा ॥१॥
kālaḥ aśvaḥ vahati sapta-raśmiḥ sahasra-akṣaḥ ajaraḥ bhūri-retāḥ .tamā rohanti kavayaḥ vipaścitaḥ tasya cakrā bhuvanāni viśvā ..1..

सप्त चक्रान् वहति काल एष सप्तास्य नाभीरमृतं न्वक्षः ।स इमा विश्वा भुवनान्यञ्जत्कालः स ईयते प्रथमो नु देवः ॥२॥
सप्त चक्रान् वहति कालः एष सप्त अस्य नाभीः अमृतम् नु अक्षः ।सः इमा विश्वा भुवनानि अञ्जत्-कालः सः ईयते प्रथमः नु देवः ॥२॥
sapta cakrān vahati kālaḥ eṣa sapta asya nābhīḥ amṛtam nu akṣaḥ .saḥ imā viśvā bhuvanāni añjat-kālaḥ saḥ īyate prathamaḥ nu devaḥ ..2..

पूर्णः कुम्भोऽधि काल आहितस्तं वै पश्यामो बहुधा नु सन्तम् ।स इमा विश्वा भुवनानि प्रत्यङ्कालं तमाहुः परमे व्योमन् ॥३॥
पूर्णः कुम्भः अधि काले आहितः तम् वै पश्यामः बहुधा नु सन्तम् ।सः इमा विश्वा भुवनानि प्रत्यङ्कालम् तम् आहुः परमे व्योमन् ॥३॥
pūrṇaḥ kumbhaḥ adhi kāle āhitaḥ tam vai paśyāmaḥ bahudhā nu santam .saḥ imā viśvā bhuvanāni pratyaṅkālam tam āhuḥ parame vyoman ..3..

स एव सं भुवनान्याभरत्स एव सं भुवनानि पर्यैत्।पिता सन्न् अभवत्पुत्र एषां तस्माद्वै नान्यत्परमस्ति तेजः ॥४॥
सः एव सम् भुवनानि आभरत् सः एव सम् भुवनानि पर्यैत्।पिता सन् अभवत् पुत्रः एषाम् तस्मात् वै न अन्यत् परम् अस्ति तेजः ॥४॥
saḥ eva sam bhuvanāni ābharat saḥ eva sam bhuvanāni paryait.pitā san abhavat putraḥ eṣām tasmāt vai na anyat param asti tejaḥ ..4..

कालोऽमूं दिवमजनयत्काल इमाः पृथिवीरुत ।काले ह भूतं भव्यं चेषितं ह वि तिष्ठते ॥५॥
कालः अमूम् दिवम् अजनयत् कालः इमाः पृथिवीः उत ।काले ह भूतम् भव्यम् च इषितम् ह वि तिष्ठते ॥५॥
kālaḥ amūm divam ajanayat kālaḥ imāḥ pṛthivīḥ uta .kāle ha bhūtam bhavyam ca iṣitam ha vi tiṣṭhate ..5..

कालो भूतिमसृजत काले तपति सूर्यः ।काले ह विश्वा भूतानि काले चक्षुर्वि पश्यति ॥६॥
कालः भूतिम् असृजत काले तपति सूर्यः ।काले ह विश्वा भूतानि काले चक्षुः वि पश्यति ॥६॥
kālaḥ bhūtim asṛjata kāle tapati sūryaḥ .kāle ha viśvā bhūtāni kāle cakṣuḥ vi paśyati ..6..

काले मनः काले प्राणः काले नाम समाहितम् ।कालेन सर्वा नन्दन्त्यागतेन प्रजा इमाः ॥७॥
काले मनः काले प्राणः काले नाम समाहितम् ।कालेन सर्वाः नन्दन्ति आगतेन प्रजाः इमाः ॥७॥
kāle manaḥ kāle prāṇaḥ kāle nāma samāhitam .kālena sarvāḥ nandanti āgatena prajāḥ imāḥ ..7..

काले तपः काले ज्येष्ठं काले ब्रह्म समाहितम् ।कालो ह सर्वस्येश्वरो यः पितासीत्प्रजापतेः ॥८॥
काले तपः काले ज्येष्ठम् काले ब्रह्म समाहितम् ।कालः ह सर्वस्य ईश्वरः यः पिता आसीत् प्रजापतेः ॥८॥
kāle tapaḥ kāle jyeṣṭham kāle brahma samāhitam .kālaḥ ha sarvasya īśvaraḥ yaḥ pitā āsīt prajāpateḥ ..8..

तेनेषितं तेन जातं तदु तस्मिन् प्रतिष्ठितम् ।कालो ह ब्रह्म भूत्वा बिभर्ति परमेष्ठिनम् ॥९॥
तेन इषितम् तेन जातम् तत् उ तस्मिन् प्रतिष्ठितम् ।कालः ह ब्रह्म भूत्वा बिभर्ति परमेष्ठिनम् ॥९॥
tena iṣitam tena jātam tat u tasmin pratiṣṭhitam .kālaḥ ha brahma bhūtvā bibharti parameṣṭhinam ..9..

कालः प्रजा असृजत कालो अग्रे प्रजापतिम् ।स्वयंभूः कश्यपः कालात्तपः कालादजायत ॥१०॥
कालः प्रजाः असृजत कालः अग्रे प्रजापतिम् ।स्वयंभूः कश्यपः कालात् तपः कालात् अजायत ॥१०॥
kālaḥ prajāḥ asṛjata kālaḥ agre prajāpatim .svayaṃbhūḥ kaśyapaḥ kālāt tapaḥ kālāt ajāyata ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In