| |
|

This overlay will guide you through the buttons:

कालादापः समभवन् कालाद्ब्रह्म तपो दिशः ।कालेनोदेति सूर्यः काले नि विशते पुनः ॥१॥
कालात् आपः समभवन् कालात् ब्रह्म तपः दिशः ।कालेन उदेति सूर्यः काले नि विशते पुनर् ॥१॥
kālāt āpaḥ samabhavan kālāt brahma tapaḥ diśaḥ .kālena udeti sūryaḥ kāle ni viśate punar ..1..

कालेन वातः पवते कालेन पृथिवी मही ।द्यौर्मही काल आहिता ॥२॥
कालेन वातः पवते कालेन पृथिवी मही ।द्यौः मही कालः आहिता ॥२॥
kālena vātaḥ pavate kālena pṛthivī mahī .dyauḥ mahī kālaḥ āhitā ..2..

कालो ह भूतं भव्यं च पुत्रो अजनयत्पुरा ।कालादृचः समभवन् यजुः कालादजायत ॥३॥
कालः ह भूतम् भव्यम् च पुत्रः अजनयत् पुरा ।कालात् ऋचः समभवन् यजुः कालात् अजायत ॥३॥
kālaḥ ha bhūtam bhavyam ca putraḥ ajanayat purā .kālāt ṛcaḥ samabhavan yajuḥ kālāt ajāyata ..3..

कालो यज्ञं समैरयद्देवेभ्यो भागमक्षितम् ।काले गन्धर्वाप्सरसः काले लोकाः प्रतिष्ठिताः ॥४॥
कालः यज्ञम् समैरयत् देवेभ्यः भागम् अक्षितम् ।काले गन्धर्व-अप्सरसः काले लोकाः प्रतिष्ठिताः ॥४॥
kālaḥ yajñam samairayat devebhyaḥ bhāgam akṣitam .kāle gandharva-apsarasaḥ kāle lokāḥ pratiṣṭhitāḥ ..4..

कालेऽयमङ्गिरा देवोऽथर्वा चाधि तिष्ठतः ।इमं च लोकं परमं च लोकं पुण्यांश्च लोकान् विधृतीश्च पुण्याः ।सर्वांल्लोकान् अभिजित्य ब्रह्मणा कालः स ईयते परमो नु देवः ॥५॥
काले अयम् अङ्गिराः देवः अथर्वा च अधि तिष्ठतः ।इमम् च लोकम् परमम् च लोकम् पुण्यान् च लोकान् विधृतीः च पुण्याः ।सर्वान् लोकान् अभिजित्य ब्रह्मणा कालः सः ईयते परमः नु देवः ॥५॥
kāle ayam aṅgirāḥ devaḥ atharvā ca adhi tiṣṭhataḥ .imam ca lokam paramam ca lokam puṇyān ca lokān vidhṛtīḥ ca puṇyāḥ .sarvān lokān abhijitya brahmaṇā kālaḥ saḥ īyate paramaḥ nu devaḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In