| |
|

This overlay will guide you through the buttons:

रात्रिंरात्रिमप्रयातं भरन्तोऽश्वायेव तिष्ठते घासमस्मै ।रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥१॥
रात्रिम् रात्रिम् अप्रयातम् भरन्तः अश्वाय इव तिष्ठते घासम् अस्मै ।रायस्पोषेण समिषा मदन्तः मा ते अग्ने प्रतिवेशाः रिषाम ॥१॥
rātrim rātrim aprayātam bharantaḥ aśvāya iva tiṣṭhate ghāsam asmai .rāyaspoṣeṇa samiṣā madantaḥ mā te agne prativeśāḥ riṣāma ..1..

या ते वसोर्वात इषुः सा त एषा तया नो मृड ।रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥२॥
या ते वसोः वाते इषुः सा ते एषा तया नः मृड ।रायस्पोषेण सम् इषा मदन्तः मा ते अग्ने प्रतिवेशाः रिषाम ॥२॥
yā te vasoḥ vāte iṣuḥ sā te eṣā tayā naḥ mṛḍa .rāyaspoṣeṇa sam iṣā madantaḥ mā te agne prativeśāḥ riṣāma ..2..

सायंसायं गृहपतिर्नो अग्निः प्रातःप्रातः सौमनसस्य दाता ।वसोर्वसोर्वसुदान एधि वयं त्वेन्धानास्तन्वं पुषेम ॥३॥
सायम् सायम् गृहपतिः नः अग्निः प्रातर् प्रातर् सौमनसस्य दाता ।वसोः वसोः वसु-दानः एधि वयम् त्वा इन्धानाः तन्वम् पुषेम ॥३॥
sāyam sāyam gṛhapatiḥ naḥ agniḥ prātar prātar saumanasasya dātā .vasoḥ vasoḥ vasu-dānaḥ edhi vayam tvā indhānāḥ tanvam puṣema ..3..

प्रातःप्रातर्गृहपतिर्नो अग्निः सायंसायं सौमनसस्य दाता ।वसोर्वसोर्वसुदान एधीन्धानास्त्वा शतंहिमा ऋधेम ॥४॥
प्रातर् प्रातर् गृहपतिः नः अग्निः सायम् सायम् सौमनसस्य दाता ।वसोः वसोः वसु-दानः एधि इन्धानाः त्वा शतंहिमाः ऋधेम ॥४॥
prātar prātar gṛhapatiḥ naḥ agniḥ sāyam sāyam saumanasasya dātā .vasoḥ vasoḥ vasu-dānaḥ edhi indhānāḥ tvā śataṃhimāḥ ṛdhema ..4..

अपश्चा दग्धान्नस्य भूयासम् ।अन्नादायान्नपतये रुद्राय नमो अग्नये ।सभ्यः सभां मे पाहि ये च सभ्याः सभासदः ॥५॥
अ पश्चा दग्ध-अन्नस्य भूयासम् ।अन्न-आदाय अन्नपतये रुद्राय नमः अग्नये ।सभ्यः सभाम् मे पाहि ये च सभ्याः सभासदः ॥५॥
a paścā dagdha-annasya bhūyāsam .anna-ādāya annapataye rudrāya namaḥ agnaye .sabhyaḥ sabhām me pāhi ye ca sabhyāḥ sabhāsadaḥ ..5..

त्वामिन्द्रा पुरुहूत विश्वमायुर्व्यश्नवन् ।अहरहर्बलिमित्ते हरन्तोऽश्वायेव तिष्ठते घासमग्ने ॥६॥
त्वाम् इन्द्र आ पुरुहूत विश्वम् आयुः व्यश्नवन् ।अहर् अहर् बलि-मित्ते हरन्तः अश्वाय इव तिष्ठते घासम् अग्ने ॥६॥
tvām indra ā puruhūta viśvam āyuḥ vyaśnavan .ahar ahar bali-mitte harantaḥ aśvāya iva tiṣṭhate ghāsam agne ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In