| |
|

This overlay will guide you through the buttons:

यमस्य लोकादध्या बभूविथ प्रमदा मर्त्यान् प्र युनक्षि धीरः ।एकाकिना सरथं यासि विद्वान्त्स्वप्नं मिमानो असुरस्य योनौ ॥१॥
यमस्य लोक आदध्याः बभूविथ प्रमदा मर्त्यान् प्र युनक्षि धीरः ।एकाकिना स रथम् यासि विद्वान् स्वप्नम् मिमानः असुरस्य योनौ ॥१॥
yamasya loka ādadhyāḥ babhūvitha pramadā martyān pra yunakṣi dhīraḥ .ekākinā sa ratham yāsi vidvān svapnam mimānaḥ asurasya yonau ..1..

बन्धस्त्वाग्रे विश्वचया अपश्यत्पुरा रात्र्या जनितोरेके अह्नि ।ततः स्वप्नेदमध्या बभूविथ भिषग्भ्यो रूपमपगूहमानः ॥२॥
बन्धः त्वा अग्रे विश्व-चयाः अपश्यत् पुरा रात्र्याः जनितोः एके अह्नि ।ततस् स्वप्न-इदम्-अध्याः बभूविथ भिषग्भ्यः रूपम् अपगूहमानः ॥२॥
bandhaḥ tvā agre viśva-cayāḥ apaśyat purā rātryāḥ janitoḥ eke ahni .tatas svapna-idam-adhyāḥ babhūvitha bhiṣagbhyaḥ rūpam apagūhamānaḥ ..2..

बृहद्गावासुरेभ्योऽधि देवान् उपावर्तत महिमानमिच्छन् ।तस्मै स्वप्नाय दधुराधिपत्यं त्रयस्त्रिंशासः स्वरानशानाः ॥३॥
बृहद्गौ आसुरेभ्यः अधि देवान् उपावर्तत महिमानम् इच्छन् ।तस्मै स्वप्नाय दधुः आधिपत्यम् त्रयस्त्रिंशासः स्वर अन् अशानाः ॥३॥
bṛhadgau āsurebhyaḥ adhi devān upāvartata mahimānam icchan .tasmai svapnāya dadhuḥ ādhipatyam trayastriṃśāsaḥ svara an aśānāḥ ..3..

नैतां विदुः पितरो नोत देवा येषां जल्पिश्चरत्यन्तरेदम् ।त्रिते स्वप्नमदधुराप्त्ये नर आदित्यासो वरुणेनानुशिष्टाः ॥४॥
न एताम् विदुः पितरः न उत देवाः येषाम् जल्पिः चरति अन्तरा इदम् ।त्रिते स्वप्नम् अदधुः आप्त्ये नरः आदित्यासः वरुणेन अनुशिष्टाः ॥४॥
na etām viduḥ pitaraḥ na uta devāḥ yeṣām jalpiḥ carati antarā idam .trite svapnam adadhuḥ āptye naraḥ ādityāsaḥ varuṇena anuśiṣṭāḥ ..4..

यस्य क्रूरमभजन्त दुष्कृतोऽस्वप्नेन सुकृतः पुण्यमायुः ।स्वर्मदसि परमेण बन्धुना तप्यमानस्य मनसोऽधि जज्ञिषे ॥५॥
यस्य क्रूरम् अभजन्त दुष्कृतः अस्वप्नेन सु कृतः पुण्यम् आयुः ।स्वर् मदसि परमेण बन्धुना तप्यमानस्य मनसः अधि जज्ञिषे ॥५॥
yasya krūram abhajanta duṣkṛtaḥ asvapnena su kṛtaḥ puṇyam āyuḥ .svar madasi parameṇa bandhunā tapyamānasya manasaḥ adhi jajñiṣe ..5..

विद्म ते सर्वाः परिजाः पुरस्ताद्विद्म स्वप्न यो अधिपा इहा ते ।यशश्विनो नो यशसेह पाह्याराद्द्विषेभिरप याहि दूरम् ॥६॥
विद्म ते सर्वाः परिजाः पुरस्तात् विद्म स्वप्न यः अधिपाः इह आ ते ।यशश्विनः नः यशसा इह पाहि आरात् द्विषेभिः अप याहि दूरम् ॥६॥
vidma te sarvāḥ parijāḥ purastāt vidma svapna yaḥ adhipāḥ iha ā te .yaśaśvinaḥ naḥ yaśasā iha pāhi ārāt dviṣebhiḥ apa yāhi dūram ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In