| |
|

This overlay will guide you through the buttons:

यथा कलां यथा शफं यथा र्णं सन्नयन्ति ।एवा दुष्वप्न्यं सर्वमप्रिये सं नयामसि ॥१॥
यथा कलाम् यथा शफम् यथा ऋणम् सन् ।एव दुष्वप्न्यम् सर्वम् अप्रिये सम् नयामसि ॥१॥
yathā kalām yathā śapham yathā ṛṇam san .eva duṣvapnyam sarvam apriye sam nayāmasi ..1..

सं राजानो अगुः समृणाम्यगुः सं कुष्ठा अगुः सं कला अगुः ।समस्मासु यद्दुष्वप्न्यं निर्द्विषते दुष्वप्न्यं सुवाम ॥२॥
सम् राजानः अगुः समृणामि अगुः सम् कुष्ठाः अगुः सम् कलाः अगुः ।सम् अस्मासु यत् दुष्वप्न्यम् निर्द्विषते दुष्वप्न्यम् सुवाम ॥२॥
sam rājānaḥ aguḥ samṛṇāmi aguḥ sam kuṣṭhāḥ aguḥ sam kalāḥ aguḥ .sam asmāsu yat duṣvapnyam nirdviṣate duṣvapnyam suvāma ..2..

देवानां पत्नीनां गर्भ यमस्य कर यो भद्रः स्वप्न ।स मम यः पापस्तद्द्विषते प्र हिण्मः ।मा तृष्टानामसि कृष्णशकुनेर्मुखम् ॥३॥
देवानाम् पत्नीनाम् गर्भ यमस्य कर यः भद्रः स्वप्न ।स मम यः पापः तत् द्विषते प्र हिण्मः ।मा तृष्टानाम् असि कृष्णशकुनेः मुखम् ॥३॥
devānām patnīnām garbha yamasya kara yaḥ bhadraḥ svapna .sa mama yaḥ pāpaḥ tat dviṣate pra hiṇmaḥ .mā tṛṣṭānām asi kṛṣṇaśakuneḥ mukham ..3..

तं त्वा स्वप्न तथा सं विद्म स त्वं स्वप्नाश्व इव कायमश्व इव नीनाहम् ।अनास्माकं देवपीयुं पियारुं वप यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे ॥४॥
तम् त्वा स्वप्न तथा सम् विद्म स त्वम् स्वप्न अश्वः इव कायम् अश्वः इव नीनाहम् ।अना अस्माकम् देव-पीयुम् पियारुम् वप यत् अस्मासु दुष्वप्न्यम् यत् गोषु यत् च नः गृहे ॥४॥
tam tvā svapna tathā sam vidma sa tvam svapna aśvaḥ iva kāyam aśvaḥ iva nīnāham .anā asmākam deva-pīyum piyārum vapa yat asmāsu duṣvapnyam yat goṣu yat ca naḥ gṛhe ..4..

अनास्माकस्तद्देवपीयुः पियारुर्निष्कमिव प्रति मुञ्चताम् ।नवारत्नीन् अपमया अस्माकं ततः परि ।दुष्वप्न्यं सर्वं द्विषते निर्दयामसि ॥५॥
अनास्माकः तत् देव-पीयुः पियारुः निष्कम् इव प्रति मुञ्चताम् ।नव अरत्नीन् अपमया अस्माकम् ततस् परि ।दुष्वप्न्यम् सर्वम् द्विषते निर्दयामसि ॥५॥
anāsmākaḥ tat deva-pīyuḥ piyāruḥ niṣkam iva prati muñcatām .nava aratnīn apamayā asmākam tatas pari .duṣvapnyam sarvam dviṣate nirdayāmasi ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In