| |
|

This overlay will guide you through the buttons:

घृतस्य जूतिः समना सदेवा संवत्सरं हविषा वर्धयन्ती ।श्रोत्रं चक्षुः प्राणोऽछिन्नो नो अस्त्वछिन्ना वयमायुषो वर्चसः ॥१॥
घृतस्य जूतिः समना स देवा संवत्सरम् हविषा वर्धयन्ती ।श्रोत्रम् चक्षुः प्राणः अ छिन्नः नः अस्तु अ छिन्नाः वयम् आयुषः वर्चसः ॥१॥
ghṛtasya jūtiḥ samanā sa devā saṃvatsaram haviṣā vardhayantī .śrotram cakṣuḥ prāṇaḥ a chinnaḥ naḥ astu a chinnāḥ vayam āyuṣaḥ varcasaḥ ..1..

उपास्मान् प्राणो ह्वयतामुप प्राणं हवामहे ।वर्चो जग्राह पृथिव्यन्तरिक्षं वर्चः सोमो बृहस्पतिर्विधत्ता ॥२॥
उप अस्मान् प्राणः ह्वयताम् उप प्राणम् हवामहे ।वर्चः जग्राह पृथिवी अन्तरिक्षम् वर्चः सोमः बृहस्पतिः विधत्ता ॥२॥
upa asmān prāṇaḥ hvayatām upa prāṇam havāmahe .varcaḥ jagrāha pṛthivī antarikṣam varcaḥ somaḥ bṛhaspatiḥ vidhattā ..2..

वर्चसो द्यावापृथिवी संग्रहणी बभूवथुर्वर्चो गृहीत्वा पृथिवीमनु सं चरेम ।यशसं गावो गोपतिमुप तिष्ठन्त्यायतीर्यशो गृहीत्वा पृथिवीमनु सं चरेम ॥३॥
वर्चसः द्यावापृथिवी संग्रहणी बभूवथुः वर्चः गृहीत्वा पृथिवीम् अनु सम् चरेम ।यशसम् गावः गोपतिम् उप तिष्ठन्ति आयतीः यशः गृहीत्वा पृथिवीम् अनु सम् चरेम ॥३॥
varcasaḥ dyāvāpṛthivī saṃgrahaṇī babhūvathuḥ varcaḥ gṛhītvā pṛthivīm anu sam carema .yaśasam gāvaḥ gopatim upa tiṣṭhanti āyatīḥ yaśaḥ gṛhītvā pṛthivīm anu sam carema ..3..

व्रजं कृणुध्वं स हि वो नृपाणो वर्मा सीव्यध्वं बहुला पृथूनि ।पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहत तम् ॥४॥
व्रजम् कृणुध्वम् स हि वः नृपाणः सीव्यध्वम् बहुला पृथूनि ।पुरः कृणुध्वम् आयसीः अधृष्टाः मा वः सुस्रोत् चमसः दृंहत तम् ॥४॥
vrajam kṛṇudhvam sa hi vaḥ nṛpāṇaḥ sīvyadhvam bahulā pṛthūni .puraḥ kṛṇudhvam āyasīḥ adhṛṣṭāḥ mā vaḥ susrot camasaḥ dṛṃhata tam ..4..

यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि ।इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥५॥
यज्ञस्य चक्षुः प्रभृतिः मुखम् च वाचा श्रोत्रेण मनसा जुहोमि ।इमम् यज्ञम् विततम् विश्व-कर्मणा देवाः यन्तु सुमनस्यमानाः ॥५॥
yajñasya cakṣuḥ prabhṛtiḥ mukham ca vācā śrotreṇa manasā juhomi .imam yajñam vitatam viśva-karmaṇā devāḥ yantu sumanasyamānāḥ ..5..

ये देवानामृत्विजो ये च यज्ञिया येभ्यो हव्यं क्रियते भागधेयम् ।इमं यज्ञं सह पत्नीभिरेत्य यावन्तो देवास्तविषा मादयन्ताम् ॥६॥
ये देवानाम् ऋत्विजः ये च यज्ञियाः येभ्यः हव्यम् क्रियते भागधेयम् ।इमम् यज्ञम् सह पत्नीभिः एत्य यावन्तः देवाः तविषाः मादयन्ताम् ॥६॥
ye devānām ṛtvijaḥ ye ca yajñiyāḥ yebhyaḥ havyam kriyate bhāgadheyam .imam yajñam saha patnībhiḥ etya yāvantaḥ devāḥ taviṣāḥ mādayantām ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In