| |
|

This overlay will guide you through the buttons:

सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात्।स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥१॥
सहस्र-बाहुः पुरुषः सहस्र-अक्षः सहस्रपाद्।स भूमिम् विश्वतस् वृत्वा अत्यतिष्ठत् दश-अङ्गुलम् ॥१॥
sahasra-bāhuḥ puruṣaḥ sahasra-akṣaḥ sahasrapād.sa bhūmim viśvatas vṛtvā atyatiṣṭhat daśa-aṅgulam ..1..

त्रिभिः पद्भिर्द्यामरोहत्पादस्येहाभवत्पुनः ।तथा व्यक्रामद्विष्वङशनानशने अनु ॥२॥
त्रिभिः पद्भिः द्याम् अरोहत् पादस्य इह अभवत् पुनर् ।तथा व्यक्रामत् विष्वङ् अशन-अनशने अनु ॥२॥
tribhiḥ padbhiḥ dyām arohat pādasya iha abhavat punar .tathā vyakrāmat viṣvaṅ aśana-anaśane anu ..2..

तावन्तो अस्य महिमानस्ततो ज्यायांश्च पूरुषः ।पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥
तावन्तः अस्य महिमानः ततस् ज्यायान् च पूरुषः ।पादः अस्य विश्वा भूतानि त्रि-पादस्य अमृतम् दिवि ॥३॥
tāvantaḥ asya mahimānaḥ tatas jyāyān ca pūruṣaḥ .pādaḥ asya viśvā bhūtāni tri-pādasya amṛtam divi ..3..

पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् ।उतामृतत्वस्येश्वरो यदन्येनाभवत्सह ॥४॥
पुरुषः एव इदम् सर्वम् यत् भूतम् यत् च भाव्यम् ।उत अमृत-त्वस्य ईश्वरः यत् अन्येन अभवत् सह ॥४॥
puruṣaḥ eva idam sarvam yat bhūtam yat ca bhāvyam .uta amṛta-tvasya īśvaraḥ yat anyena abhavat saha ..4..

यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।मुखं किमस्य किं बाहू किमूरू पादा उच्यते ॥५॥
यत् पुरुषम् व्यदधुः कतिधा व्यकल्पयन् ।मुखम् किम् अस्य किम् बाहू किम् ऊरू पादाः उच्यते ॥५॥
yat puruṣam vyadadhuḥ katidhā vyakalpayan .mukham kim asya kim bāhū kim ūrū pādāḥ ucyate ..5..

ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्योऽभवत्।मध्यं तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥६॥
ब्राह्मणः अस्य मुखम् आसीत् बाहू राजन्यः अभवत्।मध्यम् तत् अस्य यत् वैश्यः पद्भ्याम् शूद्रः अजायत ॥६॥
brāhmaṇaḥ asya mukham āsīt bāhū rājanyaḥ abhavat.madhyam tat asya yat vaiśyaḥ padbhyām śūdraḥ ajāyata ..6..

चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥७॥
चन्द्रमाः मनसः जातः चक्षोः सूर्यः अजायत ।मुखात् इन्द्रः च अग्निः च प्राणात् वायुः अजायत ॥७॥
candramāḥ manasaḥ jātaḥ cakṣoḥ sūryaḥ ajāyata .mukhāt indraḥ ca agniḥ ca prāṇāt vāyuḥ ajāyata ..7..

नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकामकल्पयन् ॥८॥
नाभ्याः आसीत् अन्तरिक्षम् शीर्ष्णः द्यौः समवर्तत ।पद्भ्याम् भूमिः दिशः श्रोत्रात् तथा ॥८॥
nābhyāḥ āsīt antarikṣam śīrṣṇaḥ dyauḥ samavartata .padbhyām bhūmiḥ diśaḥ śrotrāt tathā ..8..

विराडग्रे समभवद्विराजो अधि पूरुषः ।स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥९॥
विराज् अग्रे समभवत् विराजः अधि पूरुषः ।स जातः अत्यरिच्यत पश्चात् भूमिम् अथ उ पुरस् ॥९॥
virāj agre samabhavat virājaḥ adhi pūruṣaḥ .sa jātaḥ atyaricyata paścāt bhūmim atha u puras ..9..

यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥१०॥
यत् पुरुषेण हविषा देवाः यज्ञम् अतन्वत ।वसन्तः अस्य आसीत् आज्यम् ग्रीष्मः इध्मः शरद् हविः ॥१०॥
yat puruṣeṇa haviṣā devāḥ yajñam atanvata .vasantaḥ asya āsīt ājyam grīṣmaḥ idhmaḥ śarad haviḥ ..10..

तं यज्ञं प्रावृषा प्रौक्षन् पुरुषं जातमग्रशः ।तेन देवा अयजन्त साध्या वसवश्च ये ॥११॥
तम् यज्ञम् प्रावृषा प्रौक्षन् पुरुषम् जातम् अग्रशस् ।तेन देवाः अयजन्त साध्याः वसवः च ये ॥११॥
tam yajñam prāvṛṣā praukṣan puruṣam jātam agraśas .tena devāḥ ayajanta sādhyāḥ vasavaḥ ca ye ..11..

तस्मादश्वा अजायन्त ये च के चोभयादतः ।गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥१२॥
तस्मात् अश्वाः अजायन्त ये च के च उभयात् अतस् ।गावः ह जज्ञिरे तस्मात् तस्मात् जाताः अज-अवयः ॥१२॥
tasmāt aśvāḥ ajāyanta ye ca ke ca ubhayāt atas .gāvaḥ ha jajñire tasmāt tasmāt jātāḥ aja-avayaḥ ..12..

तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।छन्दो ह जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥१३॥
तस्मात् यज्ञात् सर्व-हुतः ऋचः सामानि जज्ञिरे ।छन्दः ह जज्ञिरे तस्मात् यजुः तस्मात् अजायत ॥१३॥
tasmāt yajñāt sarva-hutaḥ ṛcaḥ sāmāni jajñire .chandaḥ ha jajñire tasmāt yajuḥ tasmāt ajāyata ..13..

तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् ।पशूंस्तांश्चक्रे वायव्यान् आरण्या ग्राम्याश्च ये ॥१४॥
तस्मात् यज्ञात् सर्व-हुतः संभृतम् पृषदाज्यम् ।पशून् तान् चक्रे वायव्यान् आरण्याः ग्राम्याः च ये ॥१४॥
tasmāt yajñāt sarva-hutaḥ saṃbhṛtam pṛṣadājyam .paśūn tān cakre vāyavyān āraṇyāḥ grāmyāḥ ca ye ..14..

सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥१५॥
सप्त अस्य आसन् परिधयः त्रिस् सप्त समिधः कृताः ।देवाः यत् यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् ॥१५॥
sapta asya āsan paridhayaḥ tris sapta samidhaḥ kṛtāḥ .devāḥ yat yajñam tanvānāḥ abadhnan puruṣam paśum ..15..

मूर्ध्नो देवस्य बृहतो अंशवः सप्त सप्ततीः ।राज्ञः सोमस्याजायन्त जातस्य पुरुषादधि ॥१६॥
मूर्ध्नः देवस्य बृहतः अंशवः सप्त सप्ततीः ।राज्ञः सोमस्य अजायन्त जातस्य पुरुषात् अधि ॥१६॥
mūrdhnaḥ devasya bṛhataḥ aṃśavaḥ sapta saptatīḥ .rājñaḥ somasya ajāyanta jātasya puruṣāt adhi ..16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In