| |
|

This overlay will guide you through the buttons:

अग्ने समिधमाहार्षं बृहते जातवेदसे ।स मे श्रद्धां च मेधां च जातवेदाः प्र यच्छतु ॥१॥
अग्ने समिधम् आहार्षम् बृहते जातवेदसे ।स मे श्रद्धाम् च मेधाम् च जातवेदाः प्र यच्छतु ॥१॥
agne samidham āhārṣam bṛhate jātavedase .sa me śraddhām ca medhām ca jātavedāḥ pra yacchatu ..1..

इध्मेन त्वा जातवेदः समिधा वर्धयामसि ।तथा त्वमस्मान् वर्धय प्रजया च धनेन च ॥२॥
इध्मेन त्वा जातवेदः समिधा वर्धयामसि ।तथा त्वम् अस्मान् वर्धय प्रजया च धनेन च ॥२॥
idhmena tvā jātavedaḥ samidhā vardhayāmasi .tathā tvam asmān vardhaya prajayā ca dhanena ca ..2..

यदग्ने यानि कानि चिदा ते दारूणि दध्मसि ।सर्वं तदस्तु मे शिवं तज्जुषस्व यविष्ठ्य ॥३॥
यत् अग्ने यानि कानि चित् आ ते दारूणि दध्मसि ।सर्वम् तत् अस्तु मे शिवम् तत् जुषस्व यविष्ठ्य ॥३॥
yat agne yāni kāni cit ā te dārūṇi dadhmasi .sarvam tat astu me śivam tat juṣasva yaviṣṭhya ..3..

एतास्ते अग्ने समिधस्त्वमिद्धः समिद्भव ।आयुरस्मासु धेह्यमृतत्वमाचार्याय ॥४॥
एताः ते अग्ने समिधः त्वम् इद्धः समिध् भव ।आयुः अस्मासु धेहि अमृत-त्वम् आचार्याय ॥४॥
etāḥ te agne samidhaḥ tvam iddhaḥ samidh bhava .āyuḥ asmāsu dhehi amṛta-tvam ācāryāya ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In