| |
|

This overlay will guide you through the buttons:

चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि ।तुर्मिशं सुमतिमिच्छमानो अहानि गीर्भिः सपर्यामि नाकम् ॥१॥
चित्राणि साकम् दिवि रोचनानि सरीसृपाणि भुवने जवानि ।तुर्मिशम् सुमतिम् इच्छमानः अहानि गीर्भिः सपर्यामि नाकम् ॥१॥
citrāṇi sākam divi rocanāni sarīsṛpāṇi bhuvane javāni .turmiśam sumatim icchamānaḥ ahāni gīrbhiḥ saparyāmi nākam ..1..

सुहवमग्ने कृत्तिका रोहिणी चास्तु भद्रं मृगशिरः शमार्द्रा ।पुनर्वसू सूनृता चारु पुष्यो भानुराश्लेषा अयनं मघा मे ॥२॥
सु हवम् अग्ने कृत्तिका रोहिणी च अस्तु भद्रम् मृगशिरः शम-आर्द्रा ।पुनर्वसू सूनृता चारु पुष्यः भानुः आश्लेषाः अयनम् मघाः मे ॥२॥
su havam agne kṛttikā rohiṇī ca astu bhadram mṛgaśiraḥ śama-ārdrā .punarvasū sūnṛtā cāru puṣyaḥ bhānuḥ āśleṣāḥ ayanam maghāḥ me ..2..

पुण्यं पूर्वा फल्गुन्यौ चात्र हस्तश्चित्रा शिवा स्वाति सुखो मे अस्तु ।राधे विशाखे सुहवानुराधा ज्येष्ठा सुनक्षत्रमरिष्ट मूलम् ॥३॥
पुण्यम् पूर्वा फल्गुन्यौ च अत्र हस्तः चित्रा शिवा स्वाति सुखः मे अस्तु ।राधे विशाखे सु हवा अनुराधा ज्येष्ठा सु नक्षत्रम् अरिष्ट मूलम् ॥३॥
puṇyam pūrvā phalgunyau ca atra hastaḥ citrā śivā svāti sukhaḥ me astu .rādhe viśākhe su havā anurādhā jyeṣṭhā su nakṣatram ariṣṭa mūlam ..3..

अन्नं पूर्वा रासतां मे अषाढा ऊर्जं देव्युत्तरा आ वहन्तु ।अभिजिन् मे रासतां पुण्यमेव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम् ॥४॥
अन्नम् पूर्वाः रासताम् मे अषाढाः ऊर्जम् देवी-उत्तराः आ वहन्तु ।अभिजित् मे रासताम् पुण्यम् एव श्रवणः श्रविष्ठाः कुर्वताम् सु पुष्टिम् ॥४॥
annam pūrvāḥ rāsatām me aṣāḍhāḥ ūrjam devī-uttarāḥ ā vahantu .abhijit me rāsatām puṇyam eva śravaṇaḥ śraviṣṭhāḥ kurvatām su puṣṭim ..4..

आ मे महच्छतभिषग्वरीय आ मे द्वया प्रोष्ठपदा सुशर्म ।आ रेवती चाश्वयुजौ भगं म आ मे रयिं भरण्य आ वहन्तु ॥५॥
आ मे महत् शतभिषग्वरीयः आ मे द्वया प्रोष्ठपदा सु शर्म ।आ रेवती च आश्वयुजौ भगम् मे आ मे रयिम् भरण्यः आ वहन्तु ॥५॥
ā me mahat śatabhiṣagvarīyaḥ ā me dvayā proṣṭhapadā su śarma .ā revatī ca āśvayujau bhagam me ā me rayim bharaṇyaḥ ā vahantu ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In