| |
|

This overlay will guide you through the buttons:

यानि नक्षत्राणि दिव्यन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु ।प्रकल्पयंश्चन्द्रमा यान्येति सर्वाणि ममैतानि शिवानि सन्तु ॥१॥
यानि नक्षत्राणि दिवि अन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु ।प्रकल्पयन् चन्द्रमाः यानि एति सर्वाणि मम एतानि शिवानि सन्तु ॥१॥
yāni nakṣatrāṇi divi antarikṣe apsu bhūmau yāni nageṣu dikṣu .prakalpayan candramāḥ yāni eti sarvāṇi mama etāni śivāni santu ..1..

अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे ।योगं प्र पद्ये क्षेमं च क्षेमं प्र पद्ये योगं च नमोऽहोरात्राभ्यामस्तु ॥२॥
अष्टाविंशानि शिवानि शग्मानि सह योगम् भजन्तु मे ।योगम् प्र पद्ये क्षेमम् च क्षेमम् प्र पद्ये योगम् च नमः अहर्-रात्राभ्याम् अस्तु ॥२॥
aṣṭāviṃśāni śivāni śagmāni saha yogam bhajantu me .yogam pra padye kṣemam ca kṣemam pra padye yogam ca namaḥ ahar-rātrābhyām astu ..2..

स्वस्तितं मे सुप्रातः सुसायं सुदिवं सुमृगं सुशकुनं मे अस्तु ।सुहवमग्ने स्वस्त्यमर्त्यं गत्वा पुनरायाभिनन्दन् ॥३॥
स्वस्तितम् मे सु प्रातर् सु सायम् सु दिवम् सु मृगम् सु शकुनम् मे अस्तु ।सु हवम् अग्ने स्वस्ति अमर्त्यम् गत्वा पुनराय अभिनन्दन् ॥३॥
svastitam me su prātar su sāyam su divam su mṛgam su śakunam me astu .su havam agne svasti amartyam gatvā punarāya abhinandan ..3..

अनुहवं परिहवं परिवादं परिक्षवम् ।सर्वैर्मे रिक्तकुम्भान् परा तान्त्सवितः सुव ॥४॥
अनुहवम् परिहवम् परिवादम् परिक्षवम् ।सर्वैः मे रिक्त-कुम्भान् परा तान् सवितर् सुव ॥४॥
anuhavam parihavam parivādam parikṣavam .sarvaiḥ me rikta-kumbhān parā tān savitar suva ..4..

अपपापं परिक्षवं पुण्यं भक्षीमहि क्षवम् ।शिवा ते पाप नासिकां पुण्यगश्चाभि मेहताम् ॥५॥
अपपापम् परिक्षवम् पुण्यम् भक्षीमहि क्षवम् ।शिवा ते पाप नासिकाम् पुण्यगः च अभि मेहताम् ॥५॥
apapāpam parikṣavam puṇyam bhakṣīmahi kṣavam .śivā te pāpa nāsikām puṇyagaḥ ca abhi mehatām ..5..

इमा या ब्रह्मणस्पते विषुचीर्वात ईरते ।सध्रीचीरिन्द्र ताः कृत्वा मह्यं शिवतमास्कृधि ॥६॥
इमाः याः ब्रह्मणस्पते विषुचीः वाते ईरते ।सध्रीचीः इन्द्र ताः कृत्वा मह्यम् शिवतमा आस्कृधि ॥६॥
imāḥ yāḥ brahmaṇaspate viṣucīḥ vāte īrate .sadhrīcīḥ indra tāḥ kṛtvā mahyam śivatamā āskṛdhi ..6..

स्वस्ति नो अस्त्वभयं नो अस्तु नमोऽहोरत्राभ्यामस्तु ॥७॥
स्वस्ति नः अस्तु अभयम् नः अस्तु नमः अहोरत्राभ्याम् अस्तु ॥७॥
svasti naḥ astu abhayam naḥ astu namaḥ ahoratrābhyām astu ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In