| |
|

This overlay will guide you through the buttons:

शान्ता द्यौः शान्ता पृथिवी शान्तमिदमुर्वन्तरिक्षम् ।शान्ता उदन्वतीरापः शान्ता नः सन्त्वोषधीः ॥१॥
शान्ता द्यौः शान्ता पृथिवी शान्तम् इदम् उरु अन्तरिक्षम् ।शान्ताः उदन्वतीः आपः शान्ताः नः सन्तु ओषधीः ॥१॥
śāntā dyauḥ śāntā pṛthivī śāntam idam uru antarikṣam .śāntāḥ udanvatīḥ āpaḥ śāntāḥ naḥ santu oṣadhīḥ ..1..

शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम् ।शान्तं भूतं च भव्यं च सर्वमेव शमस्तु नः ॥२॥
शान्तानि पूर्वरूपाणि शान्तम् नः अस्तु कृत-अकृतम् ।शान्तम् भूतम् च भव्यम् च सर्वम् एव शमः तु नः ॥२॥
śāntāni pūrvarūpāṇi śāntam naḥ astu kṛta-akṛtam .śāntam bhūtam ca bhavyam ca sarvam eva śamaḥ tu naḥ ..2..

इयं या परमेष्ठिनी वाग्देवी ब्रह्मसंशिता ।ययैव ससृजे घोरं तयैव शान्तिरस्तु नः ॥३॥
इयम् या परमेष्ठिनी वाग्देवी ब्रह्म-संशिता ।यया एव ससृजे घोरम् तया एव शान्तिः अस्तु नः ॥३॥
iyam yā parameṣṭhinī vāgdevī brahma-saṃśitā .yayā eva sasṛje ghoram tayā eva śāntiḥ astu naḥ ..3..

इदं यत्परमेष्ठिनं मनो वां ब्रह्मसंशितम् ।येनैव ससृजे घोरं तेनैव शान्तिरस्तु नः ॥४॥
इदम् यत् परमेष्ठिनम् मनः वाम् ब्रह्म-संशितम् ।येन एव ससृजे घोरम् तेन एव शान्तिः अस्तु नः ॥४॥
idam yat parameṣṭhinam manaḥ vām brahma-saṃśitam .yena eva sasṛje ghoram tena eva śāntiḥ astu naḥ ..4..

इमानि यानि पञ्चेन्द्रियानि मनःषष्ठानि मे हृदि ब्रह्मणा संशितानि ।यैरेव ससृजे घोरं तैरेव शान्तिरस्तु नः ॥५॥
इमानि यानि पञ्च इन्द्रियानि मनः-षष्ठानि मे हृदि ब्रह्मणा संशितानि ।यैः एव ससृजे घोरम् तैः एव शान्तिः अस्तु नः ॥५॥
imāni yāni pañca indriyāni manaḥ-ṣaṣṭhāni me hṛdi brahmaṇā saṃśitāni .yaiḥ eva sasṛje ghoram taiḥ eva śāntiḥ astu naḥ ..5..

शं नो मित्रः शं वरुणः शं विष्णुः शं प्रजापतिः ।शं न इन्द्रो बृहस्पतिः शं नो भवत्वर्यमा ॥६॥
शम् नः मित्रः शम् वरुणः शम् विष्णुः शम् प्रजापतिः ।शम् नः इन्द्रः बृहस्पतिः शम् नः भवतु अर्यमा ॥६॥
śam naḥ mitraḥ śam varuṇaḥ śam viṣṇuḥ śam prajāpatiḥ .śam naḥ indraḥ bṛhaspatiḥ śam naḥ bhavatu aryamā ..6..

शं नो मित्रः शं वरुणः शं विवस्वां छमन्तकः ।उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचरा ग्रहाः ॥७॥
शम् नः मित्रः शम् वरुणः शम् विवस्वान् शमन्तकः ।उत्पाताः पार्थिव-आन्तरिक्षाः शम् नः दिविचराः ग्रहाः ॥७॥
śam naḥ mitraḥ śam varuṇaḥ śam vivasvān śamantakaḥ .utpātāḥ pārthiva-āntarikṣāḥ śam naḥ divicarāḥ grahāḥ ..7..

शं नो भूमिर्वेप्यमाना शमुल्का निर्हतं च यत्।शं गावो लोहितक्षीराः शं भूमिरव तीर्यतीः ॥८॥
शम् नः भूमिः वेप्यमाना शम् उल्का निर्हतम् च यत्।शम् गावः लोहित-क्षीराः शम् भूमिः अव तीर्यतीः ॥८॥
śam naḥ bhūmiḥ vepyamānā śam ulkā nirhatam ca yat.śam gāvaḥ lohita-kṣīrāḥ śam bhūmiḥ ava tīryatīḥ ..8..

नक्षत्रमुल्काभिहतं शमस्तु नः शं नोऽभिचाराः शमु सन्तु कृत्याः ।शं नो निखाता वल्गाः शमुल्का देशोपसर्गाः शमु नो भवन्तु ॥९॥
नक्षत्रम् उल्का-अभिहतम् शम् अस्तु नः शम् नः अभिचाराः शमु सन्तु कृत्याः ।शम् नः निखाताः वल्गाः शम् उल्काः देश-उपसर्गाः शमु नः भवन्तु ॥९॥
nakṣatram ulkā-abhihatam śam astu naḥ śam naḥ abhicārāḥ śamu santu kṛtyāḥ .śam naḥ nikhātāḥ valgāḥ śam ulkāḥ deśa-upasargāḥ śamu naḥ bhavantu ..9..

शं नो ग्रहाश्चान्द्रमसाः शमादित्यश्च राहुणा ।शं नो मृत्युर्धूमकेतुः शं रुद्रास्तिग्मतेजसः ॥१०॥
शम् नः ग्रहाः चान्द्रमसाः शम् आदित्यः च राहुणा ।शम् नः मृत्युः धूमकेतुः शम् रुद्राः तिग्म-तेजसः ॥१०॥
śam naḥ grahāḥ cāndramasāḥ śam ādityaḥ ca rāhuṇā .śam naḥ mṛtyuḥ dhūmaketuḥ śam rudrāḥ tigma-tejasaḥ ..10..

शं रुद्राः शं वसवः शमादित्याः शमग्नयः ।शं नो महर्षयो देवाः शं देवाः शं बृहस्पतिः ॥११॥
शम् रुद्राः शम् वसवः शम् आदित्याः शम् अग्नयः ।शम् नः महा-ऋषयः देवाः शम् देवाः शम् बृहस्पतिः ॥११॥
śam rudrāḥ śam vasavaḥ śam ādityāḥ śam agnayaḥ .śam naḥ mahā-ṛṣayaḥ devāḥ śam devāḥ śam bṛhaspatiḥ ..11..

ब्रह्म प्रजापतिर्धाता लोका वेदाः सप्तऋषयोऽग्नयः ।तैर्मे कृतं स्वस्त्ययनमिन्द्रो मे शर्म यच्छतु ब्रह्मा मे शर्म यच्छतु ।विश्वे मे देवाः शर्म यच्छन्तु सर्वे मे देवाः शर्म यच्छन्तु ॥१२॥
ब्रह्म प्रजापतिः धाता लोकाः वेदाः सप्त-ऋषयः अग्नयः ।तैः मे कृतम् स्वस्त्ययनम् इन्द्रः मे शर्म यच्छतु ब्रह्मा मे शर्म यच्छतु ।विश्वे मे देवाः शर्म यच्छन्तु सर्वे मे देवाः शर्म यच्छन्तु ॥१२॥
brahma prajāpatiḥ dhātā lokāḥ vedāḥ sapta-ṛṣayaḥ agnayaḥ .taiḥ me kṛtam svastyayanam indraḥ me śarma yacchatu brahmā me śarma yacchatu .viśve me devāḥ śarma yacchantu sarve me devāḥ śarma yacchantu ..12..

यानि कानि चिच्छान्तानि लोके सप्तऋषयो विदुः ।सर्वाणि शं भवन्तु मे शं मे अस्त्वभयं मे अस्तु ॥१३॥
यानि कानि चित् शान्तानि लोके सप्त-ऋषयः विदुः ।सर्वाणि शम् भवन्तु मे शम् मे अस्तु अभयम् मे अस्तु ॥१३॥
yāni kāni cit śāntāni loke sapta-ṛṣayaḥ viduḥ .sarvāṇi śam bhavantu me śam me astu abhayam me astu ..13..

पृथिवी शान्तिरन्तरिक्षं शान्तिर्द्यौः शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्विश्वे मे देवाः शान्तिः सर्वे मे देवाः शान्तिः शान्तिः शान्तिः शान्तिभिः ।यदिह घोरं यदिह क्रूरं यदिह पापं तच्छान्तं तच्छिवं सर्वमेव शमस्तु नः ॥१४॥
पृथिवी शान्तिः अन्तरिक्षम् शान्तिः द्यौः शान्तिः आपः शान्तिः ओषधयः शान्तिः वनस्पतयः शान्तिः विश्वे मे देवाः शान्तिः सर्वे मे देवाः शान्तिः शान्तिः शान्तिः शान्तिभिः ।यत् इह घोरम् यत् इह क्रूरम् यत् इह पापम् तत् शान्तम् तत् शिवम् सर्वम् एव शमः अस्तु नः ॥१४॥
pṛthivī śāntiḥ antarikṣam śāntiḥ dyauḥ śāntiḥ āpaḥ śāntiḥ oṣadhayaḥ śāntiḥ vanaspatayaḥ śāntiḥ viśve me devāḥ śāntiḥ sarve me devāḥ śāntiḥ śāntiḥ śāntiḥ śāntibhiḥ .yat iha ghoram yat iha krūram yat iha pāpam tat śāntam tat śivam sarvam eva śamaḥ astu naḥ ..14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In