| |
|

This overlay will guide you through the buttons:

क्षेत्रियात्त्वा निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥१॥
क्षेत्रियात् त्वा निरृत्याः जामि-शंसात् द्रुहः मुञ्चामि वरुणस्य पाशात्।अनागसम् ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥१॥
kṣetriyāt tvā nirṛtyāḥ jāmi-śaṃsāt druhaḥ muñcāmi varuṇasya pāśāt.anāgasam brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām ..1..

शं ते अग्निः सहाद्भिरस्तु शं सोमः सहौषधीभिः ।एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥२॥
शम् ते अग्निः सह अद्भिः अस्तु शम् सोमः सह ओषधीभिः ।एव अहम् त्वाम् क्षेत्रियात् निरृत्याः जामि-शंसात् द्रुहः मुञ्चामि वरुणस्य पाशात्।अनागसम् ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥२॥
śam te agniḥ saha adbhiḥ astu śam somaḥ saha oṣadhībhiḥ .eva aham tvām kṣetriyāt nirṛtyāḥ jāmi-śaṃsāt druhaḥ muñcāmi varuṇasya pāśāt.anāgasam brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām ..2..

शं ते वातो अन्तरिक्षे वयो धाच्छं ते भवन्तु प्रदिशश्चतस्रः ।एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥३॥
शम् ते वातः अन्तरिक्षे वयः धात् शम् ते भवन्तु प्रदिशः चतस्रः ।एव अहम् त्वाम् क्षेत्रियात् निरृत्याः जामि-शंसात् द्रुहः मुञ्चामि वरुणस्य पाशात्।अनागसम् ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥३॥
śam te vātaḥ antarikṣe vayaḥ dhāt śam te bhavantu pradiśaḥ catasraḥ .eva aham tvām kṣetriyāt nirṛtyāḥ jāmi-śaṃsāt druhaḥ muñcāmi varuṇasya pāśāt.anāgasam brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām ..3..

इमा या देवीः प्रदिशश्चतस्रो वातपत्नीरभि सूर्यो विचष्टे ।एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।अनागसं ब्रह्मणा त्वा कृनोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥४॥
इमाः याः देवीः प्रदिशः चतस्रः वात-पत्नीः अभि सूर्यः विचष्टे ।एव अहम् त्वाम् क्षेत्रियात् निरृत्याः जामि-शंसात् द्रुहः मुञ्चामि वरुणस्य पाशात्।अनागसम् ब्रह्मणा त्वा कृनोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥४॥
imāḥ yāḥ devīḥ pradiśaḥ catasraḥ vāta-patnīḥ abhi sūryaḥ vicaṣṭe .eva aham tvām kṣetriyāt nirṛtyāḥ jāmi-śaṃsāt druhaḥ muñcāmi varuṇasya pāśāt.anāgasam brahmaṇā tvā kṛnomi śive te dyāvāpṛthivī ubhe stām ..4..

तासु त्वान्तर्जरस्या दधामि प्र यक्ष्म एतु निर्ऋतिः पराचैः ।एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥५॥
तासु त्वा अन्तर्जरस्या दधामि प्र यक्ष्मः एतु निरृतिः पराचैस् ।एव अहम् त्वाम् क्षेत्रियात् निरृत्याः जामि-शंसात् द्रुहः मुञ्चामि वरुणस्य पाशात्।अनागसम् ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥५॥
tāsu tvā antarjarasyā dadhāmi pra yakṣmaḥ etu nirṛtiḥ parācais .eva aham tvām kṣetriyāt nirṛtyāḥ jāmi-śaṃsāt druhaḥ muñcāmi varuṇasya pāśāt.anāgasam brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām ..5..

अमुक्था यक्ष्माद्दुरितादवद्याद्द्रुहः पाशाद्ग्राह्याश्चोदमुक्थाः ।एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥६॥
अमुक्थाः यक्ष्मात् दुरितात् अवद्यात् द्रुहः पाशात् ग्राह्याः च उदमुक्थाः ।एव अहम् त्वाम् क्षेत्रियात् निरृत्याः जामि-शंसात् द्रुहः मुञ्चामि वरुणस्य पाशात्।अनागसम् ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥६॥
amukthāḥ yakṣmāt duritāt avadyāt druhaḥ pāśāt grāhyāḥ ca udamukthāḥ .eva aham tvām kṣetriyāt nirṛtyāḥ jāmi-śaṃsāt druhaḥ muñcāmi varuṇasya pāśāt.anāgasam brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām ..6..

अहा अरातिमविदः स्योनमप्यभूर्भद्रे सुकृतस्य लोके ।एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥७॥
अहाः अरातिम् अविदः स्योनम् अपि अभूः भद्रे सुकृतस्य लोके ।एव अहम् त्वाम् क्षेत्रियात् निरृत्याः जामि-शंसात् द्रुहः मुञ्चामि वरुणस्य पाशात्।अनागसम् ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥७॥
ahāḥ arātim avidaḥ syonam api abhūḥ bhadre sukṛtasya loke .eva aham tvām kṣetriyāt nirṛtyāḥ jāmi-śaṃsāt druhaḥ muñcāmi varuṇasya pāśāt.anāgasam brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām ..7..

सूर्यमृतं तमसो ग्राह्या अधि देवा मुञ्चन्तो असृजन् निरेनसः ।एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥८॥
सूर्य-मृतम् तमसः ग्राह्याः अधि देवाः मुञ्चन्तः असृजन् निरेनसः ।एव अहम् त्वाम् क्षेत्रियात् निरृत्याः जामि-शंसात् द्रुहः मुञ्चामि वरुणस्य पाशात्।अनागसम् ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥८॥
sūrya-mṛtam tamasaḥ grāhyāḥ adhi devāḥ muñcantaḥ asṛjan nirenasaḥ .eva aham tvām kṣetriyāt nirṛtyāḥ jāmi-śaṃsāt druhaḥ muñcāmi varuṇasya pāśāt.anāgasam brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In