| |
|

This overlay will guide you through the buttons:

द्यावापृथिवी उर्वन्तरिक्षं क्षेत्रस्य पत्न्युरुगायोऽद्भुतः ।उतान्तरिक्षमुरु वातगोपं त इह तप्यन्तां मयि तप्यमाने ॥१॥
द्यावापृथिवी उरु अन्तरिक्षम् क्षेत्रस्य पत्नी उरुगायः अद्भुतः ।उत अन्तरिक्षम् उरु वात-गोपम् ते इह तप्यन्ताम् मयि तप्यमाने ॥१॥
dyāvāpṛthivī uru antarikṣam kṣetrasya patnī urugāyaḥ adbhutaḥ .uta antarikṣam uru vāta-gopam te iha tapyantām mayi tapyamāne ..1..

इदं देवाः शृणुत ये यज्ञिया स्थ भरद्वाजो मह्यमुक्थानि शंसति ।पाशे स बद्धो दुरिते नि युज्यतां यो अस्माकं मन इदं हिनस्ति ॥२॥
इदम् देवाः शृणुत ये यज्ञियाः स्थ भरद्वाजः मह्यम् उक्थानि शंसति ।पाशे स बद्धः दुरिते नि युज्यताम् यः अस्माकम् मनः इदम् हिनस्ति ॥२॥
idam devāḥ śṛṇuta ye yajñiyāḥ stha bharadvājaḥ mahyam ukthāni śaṃsati .pāśe sa baddhaḥ durite ni yujyatām yaḥ asmākam manaḥ idam hinasti ..2..

इदमिन्द्र शृणुहि सोमप यत्त्वा हृदा शोचता जोहवीमि ।वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति ॥३॥
इदम् इन्द्र शृणुहि सोम-प यत् त्वा हृदा शोचता जोहवीमि ।वृश्चामि तम् कुलिशेन इव वृक्षम् यः अस्माकम् मनः इदम् हिनस्ति ॥३॥
idam indra śṛṇuhi soma-pa yat tvā hṛdā śocatā johavīmi .vṛścāmi tam kuliśena iva vṛkṣam yaḥ asmākam manaḥ idam hinasti ..3..

अशीतिभिस्तिसृभिः सामगेभिरादित्येभिर्वसुभिरङ्गिरोभिः ।इष्टापूर्तमवतु नः पितॄणामामुं ददे हरसा दैव्येन ॥४॥
अशीतिभिः तिसृभिः सामगेभिः आदित्येभिः वसुभिः अङ्गिरोभिः ।इष्टापूर्तम् अवतु नः पितॄणाम् आ अमुम् ददे हरसा दैव्येन ॥४॥
aśītibhiḥ tisṛbhiḥ sāmagebhiḥ ādityebhiḥ vasubhiḥ aṅgirobhiḥ .iṣṭāpūrtam avatu naḥ pitṝṇām ā amum dade harasā daivyena ..4..

द्यावापृथिवी अनु मा दीधीथां विश्वे देवासो अनु मा रभध्वम् ।अङ्गिरसः पितरः सोम्यासः पापमार्छत्वपकामस्य कर्ता ॥५॥
द्यावापृथिवी अनु मा दीधीथाम् विश्वे देवासः अनु मा रभध्वम् ।अङ्गिरसः पितरः सोम्यासः पापम् आर्छतु अपकामस्य कर्ता ॥५॥
dyāvāpṛthivī anu mā dīdhīthām viśve devāsaḥ anu mā rabhadhvam .aṅgirasaḥ pitaraḥ somyāsaḥ pāpam ārchatu apakāmasya kartā ..5..

अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत्क्रियमाणम् ।तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषं द्यौरभिसंतपाति ॥६॥
अतीव यः मरुतः मन्यते नः ब्रह्म वा यः निन्दिषत् क्रियमाणम् ।तपूंषि तस्मै वृजिनानि सन्तु ब्रह्म-द्विषम् द्यौः अभिसंतपाति ॥६॥
atīva yaḥ marutaḥ manyate naḥ brahma vā yaḥ nindiṣat kriyamāṇam .tapūṃṣi tasmai vṛjināni santu brahma-dviṣam dyauḥ abhisaṃtapāti ..6..

सप्त प्राणान् अष्टौ मन्यस्तांस्ते वृश्चामि ब्रह्मणा ।अया यमस्य सादनमग्निदूतो अरंकृतः ॥७॥
सप्त प्राणान् अष्टौ मन्यः तान् ते वृश्चामि ब्रह्मणा ।अयाः यमस्य सादनम् अग्नि-दूतः अरंकृतः ॥७॥
sapta prāṇān aṣṭau manyaḥ tān te vṛścāmi brahmaṇā .ayāḥ yamasya sādanam agni-dūtaḥ araṃkṛtaḥ ..7..

आ दधामि ते पदं समिद्धे जातवेदसि ।अग्निः शरीरं वेवेष्ट्वसुं वागपि गच्छतु ॥८॥
आ दधामि ते पदम् समिद्धे जातवेदसि ।अग्निः शरीरम् वेवेष्ट्वसुम् वाच् अपि गच्छतु ॥८॥
ā dadhāmi te padam samiddhe jātavedasi .agniḥ śarīram veveṣṭvasum vāc api gacchatu ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In