| |
|

This overlay will guide you through the buttons:

आयुर्दा अग्ने जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने ।घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रान् अभि रक्षतादिमम् ॥१॥
आयुः-दाः अग्ने जरसम् वृणानः घृत-प्रतीकः घृत-पृष्ठः अग्ने ।घृतम् पीत्वा मधु चारु गव्यम् पिता इव पुत्रान् अभि रक्षत आत् इमम् ॥१॥
āyuḥ-dāḥ agne jarasam vṛṇānaḥ ghṛta-pratīkaḥ ghṛta-pṛṣṭhaḥ agne .ghṛtam pītvā madhu cāru gavyam pitā iva putrān abhi rakṣata āt imam ..1..

परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः ।बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ ॥२॥
परि धत्त धत्त नः वर्चसा इमम् जरा-मृत्युम् कृणुत दीर्घम् आयुः ।बृहस्पतिः प्रायच्छत् वासः एतत् सोमाय राज्ञे परिधातवै उ ॥२॥
pari dhatta dhatta naḥ varcasā imam jarā-mṛtyum kṛṇuta dīrgham āyuḥ .bṛhaspatiḥ prāyacchat vāsaḥ etat somāya rājñe paridhātavai u ..2..

परीदं वासो अधिथाः स्वस्तयेऽभूर्गृष्टीनामभिशस्तिपा उ ।शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व ॥३॥
परि इदम् वासः अधिथाः स्वस्तये अभूः गृष्टीनाम् अभिशस्ति-पाः उ ।शतम् च जीव शरदः पुरूची रायः च पोषम् उपसंव्ययस्व ॥३॥
pari idam vāsaḥ adhithāḥ svastaye abhūḥ gṛṣṭīnām abhiśasti-pāḥ u .śatam ca jīva śaradaḥ purūcī rāyaḥ ca poṣam upasaṃvyayasva ..3..

एह्यश्मानमा तिष्ठाश्मा भवतु ते तनूः ।कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतम् ॥४॥
एहि अश्मानम् आ तिष्ठ अश्मा भवतु ते तनूः ।कृण्वन्तु विश्वे देवाः आयुः ते शरदः शतम् ॥४॥
ehi aśmānam ā tiṣṭha aśmā bhavatu te tanūḥ .kṛṇvantu viśve devāḥ āyuḥ te śaradaḥ śatam ..4..

यस्य ते वासः प्रथमवास्यं हरामस्तं त्वा विश्वेऽवन्तु देवाः ।तं त्वा भ्रातरः सुवृधा वर्धमानमनु जायन्तां बहवः सुजातम् ॥५॥
यस्य ते वासः प्रथम-वास्यम् हरामः तम् त्वा विश्वे अवन्तु देवाः ।तम् त्वा भ्रातरः सु वृधाः वर्धमानम् अनु जायन्ताम् बहवः सु जातम् ॥५॥
yasya te vāsaḥ prathama-vāsyam harāmaḥ tam tvā viśve avantu devāḥ .tam tvā bhrātaraḥ su vṛdhāḥ vardhamānam anu jāyantām bahavaḥ su jātam ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In