| |
|

This overlay will guide you through the buttons:

यथा द्यौश्च पृथिवी च न बिभीतो न रिष्यतः ।एवा मे प्राण मा बिभेः ॥१॥
यथा द्यौः च पृथिवी च न बिभीतः न रिष्यतः ।एवा मे प्राण मा बिभेः ॥१॥
yathā dyauḥ ca pṛthivī ca na bibhītaḥ na riṣyataḥ .evā me prāṇa mā bibheḥ ..1..

यथाहश्च रात्री च न बिभीतो न रिष्यतः ।एवा मे प्राण मा बिभेः ॥२॥
यथा अहर् च रात्री च न बिभीतः न रिष्यतः ।एवा मे प्राण मा बिभेः ॥२॥
yathā ahar ca rātrī ca na bibhītaḥ na riṣyataḥ .evā me prāṇa mā bibheḥ ..2..

यथा सूर्यश्च चन्द्रश्च न बिभीतो न रिष्यतः ।एवा मे प्राण मा बिभेः ॥३॥
यथा सूर्यः च चन्द्रः च न बिभीतः न रिष्यतः ।एवा मे प्राण मा बिभेः ॥३॥
yathā sūryaḥ ca candraḥ ca na bibhītaḥ na riṣyataḥ .evā me prāṇa mā bibheḥ ..3..

यथा ब्रह्म च क्षत्रं च न बिभीतो न रिष्यतः ।एवा मे प्राण मा बिभेः ॥४॥
यथा ब्रह्म च क्षत्रम् च न बिभीतः न रिष्यतः ।एवा मे प्राण मा बिभेः ॥४॥
yathā brahma ca kṣatram ca na bibhītaḥ na riṣyataḥ .evā me prāṇa mā bibheḥ ..4..

यथा सत्यं चानृतं च न बिभीतो न रिष्यतः ।एवा मे प्राण मा बिभेः ॥५॥
यथा सत्यम् च अनृतम् च न बिभीतः न रिष्यतः ।एवा मे प्राण मा बिभेः ॥५॥
yathā satyam ca anṛtam ca na bibhītaḥ na riṣyataḥ .evā me prāṇa mā bibheḥ ..5..

यथा भूतं च भव्यं च न बिभीतो न रिष्यतः ।एवा मे प्राण मा बिभेः ॥६॥
यथा भूतम् च भव्यम् च न बिभीतः न रिष्यतः ।एवा मे प्राण मा बिभेः ॥६॥
yathā bhūtam ca bhavyam ca na bibhītaḥ na riṣyataḥ .evā me prāṇa mā bibheḥ ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In