| |
|

This overlay will guide you through the buttons:

वायो यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
वायो यत् ते तपः तेन तम् प्रति तप यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ॥१॥
vāyo yat te tapaḥ tena tam prati tapa yaḥ asmān dveṣṭi yam vayam dviṣmaḥ ..1..

वायो यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
वायो यत् ते हरः तेन तम् प्रति हर यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ॥२॥
vāyo yat te haraḥ tena tam prati hara yaḥ asmān dveṣṭi yam vayam dviṣmaḥ ..2..

वायो यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
वायो यत् ते अर्चिः तेन तम् प्रत्यर्च यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ॥३॥
vāyo yat te arciḥ tena tam pratyarca yaḥ asmān dveṣṭi yam vayam dviṣmaḥ ..3..

वायो यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
वायो यत् ते शोचिः तेन तम् प्रति शोच यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ॥४॥
vāyo yat te śociḥ tena tam prati śoca yaḥ asmān dveṣṭi yam vayam dviṣmaḥ ..4..

वायो यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
वायो यत् ते तेजः तेन तम् अतेजसम् कृणु यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ॥५॥
vāyo yat te tejaḥ tena tam atejasam kṛṇu yaḥ asmān dveṣṭi yam vayam dviṣmaḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In