| |
|

This overlay will guide you through the buttons:

एह यन्तु पशवो ये परेयुर्वायुर्येषां सहचारं जुजोष ।त्वष्टा येषां रूपधेयानि वेदास्मिन् तान् गोष्ठे सविता नि यच्छतु ॥१॥
आ इह यन्तु पशवः ये परेयुः वायुः येषाम् सहचारम् जुजोष ।त्वष्टा येषाम् रूपधेयानि वेद अस्मिन् तान् गोष्ठे सविता नि यच्छतु ॥१॥
ā iha yantu paśavaḥ ye pareyuḥ vāyuḥ yeṣām sahacāram jujoṣa .tvaṣṭā yeṣām rūpadheyāni veda asmin tān goṣṭhe savitā ni yacchatu ..1..

इमं गोष्ठं पशवः सं स्रवन्तु बृहस्पतिरा नयतु प्रजानन् ।सिनीवाली नयत्वाग्रमेषामाजग्मुषो अनुमते नि यच्छ ॥२॥
इमम् गोष्ठम् पशवः सम् स्रवन्तु बृहस्पतिः आ नयतु प्रजानन् ।सिनीवाली नयत्वा अग्रम् एषाम् आजग्मुषः अनुमते नि यच्छ ॥२॥
imam goṣṭham paśavaḥ sam sravantu bṛhaspatiḥ ā nayatu prajānan .sinīvālī nayatvā agram eṣām ājagmuṣaḥ anumate ni yaccha ..2..

सं सं स्रवन्तु पशवः समश्वाः समु पूरुषाः ।सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि ॥३॥
सम् सम् स्रवन्तु पशवः सम् अश्वाः समु पूरुषाः ।सम् धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि ॥३॥
sam sam sravantu paśavaḥ sam aśvāḥ samu pūruṣāḥ .sam dhānyasya yā sphātiḥ saṃsrāvyeṇa haviṣā juhomi ..3..

सं सिञ्चामि गवां क्षीरं समाज्येन बलं रसम् ।संसिक्ता अस्माकं वीरा ध्रुवा गावो मयि गोपतौ ॥४॥
सम् सिञ्चामि गवाम् क्षीरम् सम् आज्येन बलम् रसम् ।संसिक्ताः अस्माकम् वीराः ध्रुवाः गावः मयि गोपतौ ॥४॥
sam siñcāmi gavām kṣīram sam ājyena balam rasam .saṃsiktāḥ asmākam vīrāḥ dhruvāḥ gāvaḥ mayi gopatau ..4..

आ हरामि गवां क्षीरमाहार्षं धान्यं रसम् ।आहृता अस्माकं वीरा आ पत्नीरिदमस्तकम् ॥५॥
आ हरामि गवाम् क्षीरम् आहार्षम् धान्यम् रसम् ।आहृताः अस्माकम् वीराः आ पत्नीः इदम्-मस्तकम् ॥५॥
ā harāmi gavām kṣīram āhārṣam dhānyam rasam .āhṛtāḥ asmākam vīrāḥ ā patnīḥ idam-mastakam ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In