| |
|

This overlay will guide you through the buttons:

तुभ्यमेव जरिमन् वर्धतामयं मेममन्ये मृत्यवो हिंसिषुः शतं ये ।मातेव पुत्रं प्रमना उपस्थे मित्र एनं मित्रियात्पात्वंहसः ॥१॥
तुभ्यम् एव जरिमन् वर्धताम् अयम् मा इमम् अन्ये मृत्यवः हिंसिषुः शतम् ये ।माता इव पुत्रम् प्रमनाः उपस्थे मित्रः एनम् मित्रियात् पातु अंहसः ॥१॥
tubhyam eva jariman vardhatām ayam mā imam anye mṛtyavaḥ hiṃsiṣuḥ śatam ye .mātā iva putram pramanāḥ upasthe mitraḥ enam mitriyāt pātu aṃhasaḥ ..1..

मित्र एनं वरुणो वा रिशादा जरामृत्युं कृणुतां संविदानौ ।तदग्निर्होता वयुनानि विद्वान् विश्वा देवानां जनिमा विवक्ति ॥२॥
मित्रः एनम् वरुणः वा रिशादाः जरा-मृत्युम् कृणुताम् संविदानौ ।तत् अग्निः होता वयुनानि विद्वान् विश्वा देवानाम् जनिमा विवक्ति ॥२॥
mitraḥ enam varuṇaḥ vā riśādāḥ jarā-mṛtyum kṛṇutām saṃvidānau .tat agniḥ hotā vayunāni vidvān viśvā devānām janimā vivakti ..2..

त्वमीशिषे पशूनां पार्थिवानां ये जाता उत वा ये जनित्राः ।मेमं प्राणो हासीन् मो अपानो मेमं मित्रा वधिषुर्मो अमित्राः ॥३॥
त्वम् ईशिषे पशूनाम् पार्थिवानाम् ये जाताः उत वा ये जनित्राः ।मा इमम् प्राणः हासीत् मा उ अपानः मा इमम् मित्राः वधिषुः मा उ अमित्राः ॥३॥
tvam īśiṣe paśūnām pārthivānām ye jātāḥ uta vā ye janitrāḥ .mā imam prāṇaḥ hāsīt mā u apānaḥ mā imam mitrāḥ vadhiṣuḥ mā u amitrāḥ ..3..

द्यौष्ट्वा पिता पृथिवी माता जरामृत्युं कृणुतां संविदाने ।यथा जीवा अदितेरुपस्थे प्राणापानाभ्यां गुपितः शतं हिमाः ॥४॥
द्यौः त्वा पिता पृथिवी माता जरा-मृत्युम् कृणुताम् संविदाने ।यथा जीवाः अदितेः उपस्थे प्राण-अपानाभ्याम् गुपितः शतम् हिमाः ॥४॥
dyauḥ tvā pitā pṛthivī mātā jarā-mṛtyum kṛṇutām saṃvidāne .yathā jīvāḥ aditeḥ upasthe prāṇa-apānābhyām gupitaḥ śatam himāḥ ..4..

इममग्ने आयुषे वर्चसे नय प्रियं रेतो वरुण मित्र राजन् ।मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथासत्॥५॥
इमम् अग्ने आयुषे वर्चसे नय प्रियम् रेतः वरुण मित्र राजन् ।माता इव अस्मै अदिते शर्म यच्छ विश्वे देवाः जरदष्टिः यथा असत्॥५॥
imam agne āyuṣe varcase naya priyam retaḥ varuṇa mitra rājan .mātā iva asmai adite śarma yaccha viśve devāḥ jaradaṣṭiḥ yathā asat..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In