| |
|

This overlay will guide you through the buttons:

पार्थिवस्य रसे देवा भगस्य तन्वो बले ।आयुष्यमस्मा अग्निः सूर्यो वर्च आ धाद्बृहस्पतिः ॥१॥
पार्थिवस्य रसे देवाः भगस्य तन्वः बले ।आयुष्यम् अस्मै अग्निः सूर्यः वर्चः आ धात् बृहस्पतिः ॥१॥
pārthivasya rase devāḥ bhagasya tanvaḥ bale .āyuṣyam asmai agniḥ sūryaḥ varcaḥ ā dhāt bṛhaspatiḥ ..1..

आयुरस्मै धेहि जातवेदः प्रजां त्वष्टरधिनिधेहि अस्मै ।रायस्पोषं सवितरा सुवास्मै शतं जीवाति शरदस्तवायम् ॥२॥
आयुः अस्मै धेहि जातवेदः प्रजाम् त्वष्टर् अधिनिधेहि अस्मै ।रायस्पोषम् सवितरा सुव अस्मै शतम् जीवाति शरदः तव अयम् ॥२॥
āyuḥ asmai dhehi jātavedaḥ prajām tvaṣṭar adhinidhehi asmai .rāyaspoṣam savitarā suva asmai śatam jīvāti śaradaḥ tava ayam ..2..

आशीर्ण ऊर्जमुत सौप्रजास्त्वं दक्षं धत्तं द्रविणं सचेतसौ ।जयं क्षेत्राणि सहसायमिन्द्र कृण्वानो अन्यान् अधरान्त्सपत्नान् ॥३॥
आशीर्णः ऊर्जम् उत सौप्रजास्त्वम् दक्षम् धत्तम् द्रविणम् सचेतसौ ।जयम् क्षेत्राणि सहसा अयम् इन्द्र कृण्वानः अन्यान् अधरान् सपत्नान् ॥३॥
āśīrṇaḥ ūrjam uta sauprajāstvam dakṣam dhattam draviṇam sacetasau .jayam kṣetrāṇi sahasā ayam indra kṛṇvānaḥ anyān adharān sapatnān ..3..

इन्द्रेण दत्तो वरुणेन शिष्टो मरुद्भिरुग्रः प्रहितो नो आगन् ।एष वां द्यावापृथिवी उपस्थे मा क्षुधन् मा तृषत्॥४॥
इन्द्रेण दत्तः वरुणेन शिष्टः मरुद्भिः उग्रः प्रहितः नः आगन् ।एष वाम् द्यावापृथिवी उपस्थे मा क्षुधत् मा तृषत्॥४॥
indreṇa dattaḥ varuṇena śiṣṭaḥ marudbhiḥ ugraḥ prahitaḥ naḥ āgan .eṣa vām dyāvāpṛthivī upasthe mā kṣudhat mā tṛṣat..4..

ऊर्जमस्मा ऊर्जस्वती धत्तं पयो अस्मै पयस्वती धत्तम् ।ऊर्जमस्मै द्यावपृथिवी अधातां विश्वे देवा मरुत ऊर्जमापः ॥५॥
ऊर्जम् अस्मै ऊर्जस्वती धत्तम् पयः अस्मै पयस्वती धत्तम् ।ऊर्जम् अस्मै द्याव-पृथिवी अधाताम् विश्वे देवाः मरुतः ऊर्जम् आपः ॥५॥
ūrjam asmai ūrjasvatī dhattam payaḥ asmai payasvatī dhattam .ūrjam asmai dyāva-pṛthivī adhātām viśve devāḥ marutaḥ ūrjam āpaḥ ..5..

शिवाभिष्टे हृदयं तर्पयाम्यनमीवो मोदिषीष्ठाः सुवर्चाः ।सवासिनौ पिबतां मन्थमेतमश्विनो रूपं परिधाय मायाम् ॥६॥
शिव-अभिष्टे हृदयम् तर्पयामि अनमीवः मोदिषीष्ठाः सु वर्चाः ।स वासिनौ पिबताम् मन्थम् एतम् अश्विनोः रूपम् परिधाय मायाम् ॥६॥
śiva-abhiṣṭe hṛdayam tarpayāmi anamīvaḥ modiṣīṣṭhāḥ su varcāḥ .sa vāsinau pibatām mantham etam aśvinoḥ rūpam paridhāya māyām ..6..

इन्द्र एतां ससृजे विद्धो अग्र ऊर्जां स्वधामजरां सा त एषा ।तया त्वं जीव शरदः सुवर्चा मा त आ सुस्रोद्भिषजस्ते अक्रन् ॥७॥
इन्द्रः एताम् ससृजे विद्धः अग्रे ऊर्जाम् स्वधाम् अजराम् सा ते एषा ।तया त्वम् जीव शरदः सु वर्चाः मा ते आ सुस्रोत् भिषजः ते अक्रन् ॥७॥
indraḥ etām sasṛje viddhaḥ agre ūrjām svadhām ajarām sā te eṣā .tayā tvam jīva śaradaḥ su varcāḥ mā te ā susrot bhiṣajaḥ te akran ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In