| |
|

This overlay will guide you through the buttons:

अदो यदवधावत्यवत्कमधि पर्वतात्।तत्ते कृणोमि भेषजं सुभेषजं यथाससि ॥१॥
अदः यत् अवधावति अवत्कम् अधि पर्वतात्।तत् ते कृणोमि भेषजम् सु भेषजम् यथा अससि ॥१॥
adaḥ yat avadhāvati avatkam adhi parvatāt.tat te kṛṇomi bheṣajam su bheṣajam yathā asasi ..1..

आदङ्गा कुविदङ्ग शतं या भेषजानि ते ।तेषामसि त्वमुत्तममनास्रावमरोगणम् ॥२॥
आदङ्ग कुविदङ्ग शतम् या भेषजानि ते ।तेषाम् असि त्वम् उत्तमम् अनास्रावम् अरोगणम् ॥२॥
ādaṅga kuvidaṅga śatam yā bheṣajāni te .teṣām asi tvam uttamam anāsrāvam arogaṇam ..2..

नीचैः खनन्त्यसुरा अरुस्राणमिदं महत्।तदास्रावस्य भेषजं तदु रोगमनीनशत्॥३॥
नीचैस् खनन्ति असुराः अरुस्राणम् इदम् महत्।तत् आस्रावस्य भेषजम् तत् उ रोगम् अनीनशत्॥३॥
nīcais khananti asurāḥ arusrāṇam idam mahat.tat āsrāvasya bheṣajam tat u rogam anīnaśat..3..

उपजीका उद्भरन्ति समुद्रादधि भेषजम् ।तदास्रावस्य भेषजं तदु रोगमशीशमत्॥४॥
उपजीकाः उद्भरन्ति समुद्रात् अधि भेषजम् ।तत् आस्रावस्य भेषजम् तत् उ रोगम् अशीशमत्॥४॥
upajīkāḥ udbharanti samudrāt adhi bheṣajam .tat āsrāvasya bheṣajam tat u rogam aśīśamat..4..

अरुस्राणमिदं महत्पृथिव्या अध्युद्भृतम् ।तदास्रावस्य भेषजं तदु रोगमनीनशत्॥५॥
अरुस्राणम् इदम् महत् पृथिव्याः अध्युद्भृतम् ।तत् आस्रावस्य भेषजम् तत् उ रोगम् अनीनशत्॥५॥
arusrāṇam idam mahat pṛthivyāḥ adhyudbhṛtam .tat āsrāvasya bheṣajam tat u rogam anīnaśat..5..

शं नो भवन्त्वप ओषधयः शिवाः ।इन्द्रस्य वज्रो अप हन्तु रक्षस आराद्विसृष्टा इषवः पतन्तु रक्षसाम् ॥६॥
शम् नः भवन्तु अपः ओषधयः शिवाः ।इन्द्रस्य वज्रः अप हन्तु रक्षसः आरात् विसृष्टाः इषवः पतन्तु रक्षसाम् ॥६॥
śam naḥ bhavantu apaḥ oṣadhayaḥ śivāḥ .indrasya vajraḥ apa hantu rakṣasaḥ ārāt visṛṣṭāḥ iṣavaḥ patantu rakṣasām ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In