| |
|

This overlay will guide you through the buttons:

यथेदं भूम्या अधि तृणं वातो मथायति ।एवा मथ्नामि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥१॥
यथा इदम् भूम्याः अधि तृणम् वातः मथायति ।एव मथ्नामि ते मनः यथा माम् कामिनी असः यथा मत् न आपगा असः ॥१॥
yathā idam bhūmyāḥ adhi tṛṇam vātaḥ mathāyati .eva mathnāmi te manaḥ yathā mām kāminī asaḥ yathā mat na āpagā asaḥ ..1..

सं चेन् नयाथो अश्विना कामिना सं च वक्षथः ।सं वां भगासो अग्मत सं चित्तानि समु व्रता ॥२॥
सम् चेद् नयाथः अश्विना कामिना सम् च वक्षथः ।सम् वाम् भगासः अग्मत सम् चित्तानि समु व्रता ॥२॥
sam ced nayāthaḥ aśvinā kāminā sam ca vakṣathaḥ .sam vām bhagāsaḥ agmata sam cittāni samu vratā ..2..

यत्सुपर्णा विवक्षवो अनमीवा विवक्षवः ।तत्र मे गच्छताद्धवं शल्य इव कुल्मलं यथा ॥३॥
यत् सुपर्णाः विवक्षवः अनमीवाः विवक्षवः ।तत्र मे गच्छतात् हवम् शल्यः इव कुल्मलम् यथा ॥३॥
yat suparṇāḥ vivakṣavaḥ anamīvāḥ vivakṣavaḥ .tatra me gacchatāt havam śalyaḥ iva kulmalam yathā ..3..

यदन्तरं तद्बाह्यं यद्बाह्यं तदन्तरम् ।कन्यानां विश्वरूपाणां मनो गृभायौषधे ॥४॥
यत् अन्तरम् तत् बाह्यम् यत् बाह्यम् तत् अन्तरम् ।कन्यानाम् विश्व-रूपाणाम् मनः गृभाय ओषधे ॥४॥
yat antaram tat bāhyam yat bāhyam tat antaram .kanyānām viśva-rūpāṇām manaḥ gṛbhāya oṣadhe ..4..

एयमगन् पतिकामा जनिकामोऽहमागमम् ।अश्वः कनिक्रदद्यथा भगेनाहं सहागमम् ॥५॥
आ इयम् अगन् पति-कामा जनि-कामः अहम् आगमम् ।अश्वः कनिक्रदत् यथा भगेन अहम् सह अगमम् ॥५॥
ā iyam agan pati-kāmā jani-kāmaḥ aham āgamam .aśvaḥ kanikradat yathā bhagena aham saha agamam ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In