| |
|

This overlay will guide you through the buttons:

उद्यन्न् आदित्यः क्रिमीन् हन्तु निम्रोचन् हन्तु रश्मिभिः ।ये अन्तः क्रिमयो गवि ॥१॥
उद्यन् आदित्यः क्रिमीन् हन्तु निम्रोचन् हन्तु रश्मिभिः ।ये अन्तर् क्रिमयः गवि ॥१॥
udyan ādityaḥ krimīn hantu nimrocan hantu raśmibhiḥ .ye antar krimayaḥ gavi ..1..

विश्वरूपं चतुरक्षं क्रिमिं सारङ्गमर्जुनम् ।शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः ॥२॥
विश्वरूपम् चतुर्-अक्षम् क्रिमिम् सारङ्गम् अर्जुनम् ।शृणामि अस्य पृष्टीः अपि वृश्चामि यत् शिरः ॥२॥
viśvarūpam catur-akṣam krimim sāraṅgam arjunam .śṛṇāmi asya pṛṣṭīḥ api vṛścāmi yat śiraḥ ..2..

अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्।अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥३॥
अत्रि-वत् वः क्रिमयः हन्मि कण्व-वत् जमदग्नि-वत्।अगस्त्यस्य ब्रह्मणा सम् पिनष्मि अहम् क्रिमीन् ॥३॥
atri-vat vaḥ krimayaḥ hanmi kaṇva-vat jamadagni-vat.agastyasya brahmaṇā sam pinaṣmi aham krimīn ..3..

हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः ।हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा ॥४॥
हतः राजा क्रिमीणाम् उत एषाम् स्थपतिः हतः ।हतः हत-माता क्रिमिः हत-भ्राता हत-स्वसा ॥४॥
hataḥ rājā krimīṇām uta eṣām sthapatiḥ hataḥ .hataḥ hata-mātā krimiḥ hata-bhrātā hata-svasā ..4..

हतासो अस्य वेशसो हतासः परिवेशसः ।अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥५॥
हतासः अस्य वेशसः हतासः परिवेशसः ।अथ उ ये क्षुल्लकाः इव सर्वे ते क्रिमयः हताः ॥५॥
hatāsaḥ asya veśasaḥ hatāsaḥ pariveśasaḥ .atha u ye kṣullakāḥ iva sarve te krimayaḥ hatāḥ ..5..

प्र ते शृणामि शृङ्गे याभ्यां वितुदायसि ।भिनाद्मि ते कुषुम्भं यस्ते विषधानः ॥६॥
प्र ते शृणामि शृङ्गे याभ्याम् वितुदायसि ।भिनाद्मि ते कुषुम्भम् यः ते विष-धानः ॥६॥
pra te śṛṇāmi śṛṅge yābhyām vitudāyasi .bhinādmi te kuṣumbham yaḥ te viṣa-dhānaḥ ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In