| |
|

This overlay will guide you through the buttons:

अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि ।यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥१॥
अक्षीभ्याम् ते नासिकाभ्याम् कर्णाभ्याम् छुबुकात् अधि ।यक्ष्मम् शीर्षण्यम् मस्तिष्कात् जिह्वायाः वि वृहामि ते ॥१॥
akṣībhyām te nāsikābhyām karṇābhyām chubukāt adhi .yakṣmam śīrṣaṇyam mastiṣkāt jihvāyāḥ vi vṛhāmi te ..1..

ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात्।यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥२॥
ग्रीवाभ्यः तः उष्णिहाभ्यः कीकसाभ्यः अनूक्यात्।यक्ष्मम् दोषण्यम् अंसाभ्याम् बाहुभ्याम् वि वृहामि ते ॥२॥
grīvābhyaḥ taḥ uṣṇihābhyaḥ kīkasābhyaḥ anūkyāt.yakṣmam doṣaṇyam aṃsābhyām bāhubhyām vi vṛhāmi te ..2..

हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम् ।यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥३॥
हृदयात् ते परि क्लोम्नः हलीक्ष्णात् पार्श्वाभ्याम् ।यक्ष्मम् मतस्नाभ्याम् प्लीह्नः यक्नः ते वि वृहामसि ॥३॥
hṛdayāt te pari klomnaḥ halīkṣṇāt pārśvābhyām .yakṣmam matasnābhyām plīhnaḥ yaknaḥ te vi vṛhāmasi ..3..

आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि ।यक्ष्मं कुक्षिभ्यां प्लाशेर्नाभ्या वि वृहामि ते ॥४॥
आन्त्रेभ्यः ते गुदाभ्यः वनिष्ठोः उदरात् अधि ।यक्ष्मम् कुक्षिभ्याम् प्लाशेः नाभ्याः वि वृहामि ते ॥४॥
āntrebhyaḥ te gudābhyaḥ vaniṣṭhoḥ udarāt adhi .yakṣmam kukṣibhyām plāśeḥ nābhyāḥ vi vṛhāmi te ..4..

ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भंससो वि वृहामि ते ॥५॥
ऊरुभ्याम् ते अष्ठीवद्भ्याम् पार्ष्णिभ्याम् प्रपदाभ्याम् ।यक्ष्मम् भसद्यम् श्रोणिभ्याम् भासदम् भंससः वि वृहामि ते ॥५॥
ūrubhyām te aṣṭhīvadbhyām pārṣṇibhyām prapadābhyām .yakṣmam bhasadyam śroṇibhyām bhāsadam bhaṃsasaḥ vi vṛhāmi te ..5..

अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः ।यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥६॥
अस्थिभ्यः ते मज्जभ्यः स्नावभ्यः धमनिभ्यः ।यक्ष्मम् पाणिभ्याम् अङ्गुलिभ्यः नखेभ्यः वि वृहामि ते ॥६॥
asthibhyaḥ te majjabhyaḥ snāvabhyaḥ dhamanibhyaḥ .yakṣmam pāṇibhyām aṅgulibhyaḥ nakhebhyaḥ vi vṛhāmi te ..6..

अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि ।यक्ष्मं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥७॥
अङ्गे अङ्गे लोम्नि लोम्नि यः ते पर्वणि पर्वणि ।यक्ष्मम् त्वचस्यम् ते वयम् कश्यपस्य वीबर्हेण विष्वञ्चम् वि वृहामसि ॥७॥
aṅge aṅge lomni lomni yaḥ te parvaṇi parvaṇi .yakṣmam tvacasyam te vayam kaśyapasya vībarheṇa viṣvañcam vi vṛhāmasi ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In