| |
|

This overlay will guide you through the buttons:

य ईशे पशुपतिः पशूनां चतुष्पदामुत यो द्विपदाम् ।निष्क्रीतः स यज्ञियं भागमेतु रायस्पोषा यजमानं सचन्ताम् ॥१॥
यः ईशे पशुपतिः पशूनाम् चतुष्पदाम् उत यः द्विपदाम् ।निष्क्रीतः स यज्ञियम् भागम् एतु रायस्पोषाः यजमानम् सचन्ताम् ॥१॥
yaḥ īśe paśupatiḥ paśūnām catuṣpadām uta yaḥ dvipadām .niṣkrītaḥ sa yajñiyam bhāgam etu rāyaspoṣāḥ yajamānam sacantām ..1..

प्रमुञ्चन्तो भुवनस्य रेतो गातुं धत्त यजमानाय देवाः ।उपाकृतं शशमानं यदस्थात्प्रियं देवानामप्येतु पाथः ॥२॥
प्रमुञ्चन्तः भुवनस्य रेतः गातुम् धत्त यजमानाय देवाः ।उपाकृतम् शशमानम् यत् अस्थात् प्रियम् देवानाम् अप्येतु पाथः ॥२॥
pramuñcantaḥ bhuvanasya retaḥ gātum dhatta yajamānāya devāḥ .upākṛtam śaśamānam yat asthāt priyam devānām apyetu pāthaḥ ..2..

ये बध्यमानमनु दीध्याना अन्वैक्षन्त मनसा चक्षुषा च ।अग्निष्टान् अग्रे प्र मुमोक्तु देवो विश्वकर्मा प्रजया संरराणः ॥३॥
ये बध्यमानम् अनु दीध्यानाः अन्वैक्षन्त मनसा चक्षुषा च ।अग्निः तान् अग्रे प्र मुमोक्तु देवः विश्व-कर्मा प्रजया संरराणः ॥३॥
ye badhyamānam anu dīdhyānāḥ anvaikṣanta manasā cakṣuṣā ca .agniḥ tān agre pra mumoktu devaḥ viśva-karmā prajayā saṃrarāṇaḥ ..3..

ये ग्राम्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः ।वायुष्टान् अग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संरराणः ॥४॥
ये ग्राम्याः पशवः विश्व-रूपाः विरूपाः सन्तः बहुधा एक-रूपाः ।वायुः तान् अग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संरराणः ॥४॥
ye grāmyāḥ paśavaḥ viśva-rūpāḥ virūpāḥ santaḥ bahudhā eka-rūpāḥ .vāyuḥ tān agre pra mumoktu devaḥ prajāpatiḥ prajayā saṃrarāṇaḥ ..4..

प्रजानन्तः प्रति गृह्णन्तु पूर्वे प्राणमङ्गेभ्यः पर्याचरन्तम् ।दिवं गच्छ प्रति तिष्ठा शरीरैः स्वर्गं याहि पथिभिर्देवयानैः ॥५॥
प्रजानन्तः प्रति गृह्णन्तु पूर्वे प्राणम् अङ्गेभ्यः पर्याचरन्तम् ।दिवम् गच्छ प्रति तिष्ठ शरीरैः स्वर्गम् याहि पथिभिः देव-यानैः ॥५॥
prajānantaḥ prati gṛhṇantu pūrve prāṇam aṅgebhyaḥ paryācarantam .divam gaccha prati tiṣṭha śarīraiḥ svargam yāhi pathibhiḥ deva-yānaiḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In