| |
|

This overlay will guide you through the buttons:

ये भक्षयन्तो न वसून्यानृधुर्यान् अग्नयो अन्वतप्यन्त धिष्ण्याः ।या तेषामवया दुरिष्टिः स्विष्टिं नस्तां कृणवद्विश्वकर्मा ॥१॥
ये भक्षयन्तः न वसूनि आनृधुः यान् अग्नयः अन्वतप्यन्त धिष्ण्याः ।या तेषाम् अवया दुरिष्टिः सु इष्टिम् नः ताम् कृणवत् विश्वकर्मा ॥१॥
ye bhakṣayantaḥ na vasūni ānṛdhuḥ yān agnayaḥ anvatapyanta dhiṣṇyāḥ .yā teṣām avayā duriṣṭiḥ su iṣṭim naḥ tām kṛṇavat viśvakarmā ..1..

यज्ञपतिमृषयः एनसाहुर्निर्भक्तं प्रजा अनुतप्यमानम् ।मथव्यान्त्स्तोकान् अप यान् रराध सं नष्टेभिः सृजतु विश्वकर्मा ॥२॥
यज्ञपतिम् ऋषयः एनसा आहुः निर्भक्तम् प्रजाः अनुतप्यमानम् ।मथव्यान् स्तोकान् अप यान् रराध सम् नष्टेभिः सृजतु विश्वकर्मा ॥२॥
yajñapatim ṛṣayaḥ enasā āhuḥ nirbhaktam prajāḥ anutapyamānam .mathavyān stokān apa yān rarādha sam naṣṭebhiḥ sṛjatu viśvakarmā ..2..

अदान्यान्त्सोमपान् मन्यमानो यज्ञस्य विद्वान्त्समये न धीरः ।यदेनश्चकृवान् बद्ध एष तं विश्वकर्मन् प्र मुञ्चा स्वस्तये ॥३॥
अ दान्यान् सोम-पान् मन्यमानः यज्ञस्य विद्वान् समये न धीरः ।यत् एनः चकृवान् बद्धः एष तम् विश्वकर्मन् प्र मुञ्च स्वस्तये ॥३॥
a dānyān soma-pān manyamānaḥ yajñasya vidvān samaye na dhīraḥ .yat enaḥ cakṛvān baddhaḥ eṣa tam viśvakarman pra muñca svastaye ..3..

घोरा ऋषयो नमो अस्त्वेभ्यश्चक्षुर्यदेषां मनसश्च सत्यम् ।बृहस्पतये महिष द्युमन्न् नमो विश्वकर्मन् नमस्ते पाह्यस्मान् ॥४॥
घोराः ऋषयः नमः अस्तु एभ्यः चक्षुः यत् एषाम् मनसः च सत्यम् ।बृहस्पतये महिष द्युमन् नमः विश्वकर्मन् नमः ते पाहि अस्मान् ॥४॥
ghorāḥ ṛṣayaḥ namaḥ astu ebhyaḥ cakṣuḥ yat eṣām manasaḥ ca satyam .bṛhaspataye mahiṣa dyuman namaḥ viśvakarman namaḥ te pāhi asmān ..4..

यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि ।इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥५॥
यज्ञस्य चक्षुः प्रभृतिः मुखम् च वाचा श्रोत्रेण मनसा जुहोमि ।इमम् यज्ञम् विततम् विश्व-कर्मणा देवाः यन्तु सुमनस्यमानाः ॥५॥
yajñasya cakṣuḥ prabhṛtiḥ mukham ca vācā śrotreṇa manasā juhomi .imam yajñam vitatam viśva-karmaṇā devāḥ yantu sumanasyamānāḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In