| |
|

This overlay will guide you through the buttons:

दीर्घायुत्वाय बृहते रणायारिष्यन्तो दक्षमाणाः सदैव ।मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयम् ॥१॥
दीर्घ-आयु-त्वाय बृहते रणाय अ रिष्यन्तः दक्षमाणाः सदा एव ।मणिम् विष्कन्ध-दूषणम् जङ्गिडम् बिभृमः वयम् ॥१॥
dīrgha-āyu-tvāya bṛhate raṇāya a riṣyantaḥ dakṣamāṇāḥ sadā eva .maṇim viṣkandha-dūṣaṇam jaṅgiḍam bibhṛmaḥ vayam ..1..

जङ्गिडो जम्भाद्विशराद्विष्कन्धादभिशोचनात्।मणिः सहस्रवीर्यः परि णः पातु विश्वतः ॥२॥
जङ्गिडः जम्भात् विशरात् विष्कन्धात् अभिशोचनात्।मणिः सहस्र-वीर्यः परि नः पातु विश्वतस् ॥२॥
jaṅgiḍaḥ jambhāt viśarāt viṣkandhāt abhiśocanāt.maṇiḥ sahasra-vīryaḥ pari naḥ pātu viśvatas ..2..

अयं विष्कन्धं सहतेऽयं बाधते अत्त्रिणः ।अयं नो विश्वभेषजो जङ्गिडः पात्वंहसः ॥३॥
अयम् विष्कन्धम् सहते अयम् बाधते अत्त्रिणः ।अयम् नः विश्व-भेषजः जङ्गिडः पातु अंहसः ॥३॥
ayam viṣkandham sahate ayam bādhate attriṇaḥ .ayam naḥ viśva-bheṣajaḥ jaṅgiḍaḥ pātu aṃhasaḥ ..3..

देवैर्दत्तेन मणिना जङ्गिडेन मयोभुवा ।विष्कन्धं सर्वा रक्षांसि व्यायामे सहामहे ॥४॥
देवैः दत्तेन मणिना जङ्गिडेन मयोभुवा ।विष्कन्धम् सर्वा रक्षांसि व्यायामे सहामहे ॥४॥
devaiḥ dattena maṇinā jaṅgiḍena mayobhuvā .viṣkandham sarvā rakṣāṃsi vyāyāme sahāmahe ..4..

शणश्च मा जङ्गिडश्च विष्कन्धादभि रक्षताम् ।अरण्यादन्य आभृतः कृष्या अन्यो रसेभ्यः ॥५॥
शणः च मा जङ्गिडः च विष्कन्धात् अभि रक्षताम् ।अरण्यात् अन्यः आभृतः कृष्याः अन्यः रसेभ्यः ॥५॥
śaṇaḥ ca mā jaṅgiḍaḥ ca viṣkandhāt abhi rakṣatām .araṇyāt anyaḥ ābhṛtaḥ kṛṣyāḥ anyaḥ rasebhyaḥ ..5..

कृत्यादूषिरयं मणिरथो अरातिदूषिः ।अथो सहस्वान् जङ्गिडः प्र ण आयुंषि तारिषत्॥६॥
कृत्या-दूषिः अयम् मणिः अथ उ अराति-दूषिः ।अथ उ सहस्वान् जङ्गिडः प्र नः आयुंषि तारिषत्॥६॥
kṛtyā-dūṣiḥ ayam maṇiḥ atha u arāti-dūṣiḥ .atha u sahasvān jaṅgiḍaḥ pra naḥ āyuṃṣi tāriṣat..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In