| |
|

This overlay will guide you through the buttons:

अघद्विष्टा देवजाता वीरुच्छपथयोपनी ।आपो मलमिव प्राणैक्षीत्सर्वान् मच्छपथामधि ॥१॥
अघ-द्विष्टा देव-जाता वीरुध् शपथयोपनी ।आपः मलम् इव प्राणैक्षीत् सर्वान् मत् शपथाम् अधि ॥१॥
agha-dviṣṭā deva-jātā vīrudh śapathayopanī .āpaḥ malam iva prāṇaikṣīt sarvān mat śapathām adhi ..1..

यश्च सापत्नः शपथो जाम्याः शपथश्च यः ।ब्रह्मा यन् मन्युतः शपात्सर्वं तन् नो अधस्पदम् ॥२॥
यः च सापत्नः शपथः जाम्याः शपथः च यः ।ब्रह्मा यत् मन्युतः शपात् सर्वम् तत् नः अधस्पदम् ॥२॥
yaḥ ca sāpatnaḥ śapathaḥ jāmyāḥ śapathaḥ ca yaḥ .brahmā yat manyutaḥ śapāt sarvam tat naḥ adhaspadam ..2..

दिवो मूलमवततं पृथिव्या अध्युत्ततम् ।तेन सहस्रकाण्डेन परि णः पाहि विश्वतः ॥३॥
दिवः मूलम् अवततम् पृथिव्याः अध्युत्ततम् ।तेन सहस्र-काण्डेन परि नः पाहि विश्वतस् ॥३॥
divaḥ mūlam avatatam pṛthivyāḥ adhyuttatam .tena sahasra-kāṇḍena pari naḥ pāhi viśvatas ..3..

परि मां परि मे प्रजां परि णः पाहि यद्धनम् ।अरातिर्नो मा तारीन् मा नस्तारिशुरभिमातयः ॥४॥
परि माम् परि मे प्रजाम् परि नः पाहि यत् हनम् ।अरातिः नः मा तारीत् मा नः तारिशुः अभिमातयः ॥४॥
pari mām pari me prajām pari naḥ pāhi yat hanam .arātiḥ naḥ mā tārīt mā naḥ tāriśuḥ abhimātayaḥ ..4..

शप्तारमेतु शपथो यः सुहार्त्तेन नः सह ।चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणीमसि ॥५॥
शप्तारम् एतु शपथः यः सु हार्त्तेन नः सह ।चक्षुः-मन्त्रस्य दुर्हार्दः पृष्टीः अपि शृणीमसि ॥५॥
śaptāram etu śapathaḥ yaḥ su hārttena naḥ saha .cakṣuḥ-mantrasya durhārdaḥ pṛṣṭīḥ api śṛṇīmasi ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In