| |
|

This overlay will guide you through the buttons:

उदगातां भगवती विचृतौ नाम तारके ।वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥१॥
उदगाताम् भगवती विचृतौ नाम तारके ।वि क्षेत्रियस्य मुञ्चताम् अधमम् पाशम् उत्तमम् ॥१॥
udagātām bhagavatī vicṛtau nāma tārake .vi kṣetriyasya muñcatām adhamam pāśam uttamam ..1..

अपेयं रात्र्युच्छत्वपोच्छन्त्वभिकृत्वरीः ।वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥२॥
अप इयम् रात्री उच्छतु अप उच्छन्तु अभिकृत्वरीः ।वीरुध् क्षेत्रिय-नाशनी अप क्षेत्रियम् उच्छतु ॥२॥
apa iyam rātrī ucchatu apa ucchantu abhikṛtvarīḥ .vīrudh kṣetriya-nāśanī apa kṣetriyam ucchatu ..2..

बभ्रोरर्जुनकाण्डस्य यवस्य ते पलाल्या तिलस्य तिलपिञ्ज्या ।वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥३॥
बभ्रोः अर्जुन-काण्डस्य यवस्य ते पलाल्या तिलस्य तिल-पिञ्ज्या ।वीरुध् क्षेत्रिय-नाशनी अप क्षेत्रियम् उच्छतु ॥३॥
babhroḥ arjuna-kāṇḍasya yavasya te palālyā tilasya tila-piñjyā .vīrudh kṣetriya-nāśanī apa kṣetriyam ucchatu ..3..

नमस्ते लाङ्गलेभ्यो नम ईषायुगेभ्यः ।वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥४॥
नमः ते लाङ्गलेभ्यः नमः ईषा-युगेभ्यः ।वीरुध् क्षेत्रिय-नाशनी अप क्षेत्रियम् उच्छतु ॥४॥
namaḥ te lāṅgalebhyaḥ namaḥ īṣā-yugebhyaḥ .vīrudh kṣetriya-nāśanī apa kṣetriyam ucchatu ..4..

नमः सनिस्रसाक्षेभ्यो नमः संदेश्येभ्यः ।नमः क्षेत्रस्य पतये वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥५॥
नमः सनिस्रस-अक्षेभ्यः नमः संदेश्येभ्यः ।नमः क्षेत्रस्य पतये वीरुध् क्षेत्रिय-नाशनी अप क्षेत्रियम् उच्छतु ॥५॥
namaḥ sanisrasa-akṣebhyaḥ namaḥ saṃdeśyebhyaḥ .namaḥ kṣetrasya pataye vīrudh kṣetriya-nāśanī apa kṣetriyam ucchatu ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In