| |
|

This overlay will guide you through the buttons:

दशवृक्ष मुञ्चेमं रक्षसो ग्राह्या अधि यैनं जग्राह पर्वसु ।अथो एनं वनस्पते जीवानां लोकमुन् नय ॥१॥
दश-वृक्ष मुञ्च इमम् रक्षसः ग्राह्याः अधि या एनम् जग्राह पर्वसु ।अथ उ एनम् वनस्पते जीवानाम् लोकम् उद् नय ॥१॥
daśa-vṛkṣa muñca imam rakṣasaḥ grāhyāḥ adhi yā enam jagrāha parvasu .atha u enam vanaspate jīvānām lokam ud naya ..1..

आगादुदगादयं जीवानां व्रातमप्यगात्।अभूदु पुत्राणां पिता नृणां च भगवत्तमः ॥२॥
आगात् उदगात् अयम् जीवानाम् व्रातम् अपि अगात्।अभूत् उ पुत्राणाम् पिता नृणाम् च भगवत्तमः ॥२॥
āgāt udagāt ayam jīvānām vrātam api agāt.abhūt u putrāṇām pitā nṛṇām ca bhagavattamaḥ ..2..

अधीतीरध्यगादयमधि जीवपुरा अगान् ।शतं ह्यस्य भिषजः सहस्रमुत वीरुधः ॥३॥
अधीतीः अध्यगात् अयम् अधि जीव-पुराः अगान् ।शतम् हि अस्य भिषजः सहस्रम् उत वीरुधः ॥३॥
adhītīḥ adhyagāt ayam adhi jīva-purāḥ agān .śatam hi asya bhiṣajaḥ sahasram uta vīrudhaḥ ..3..

देवास्ते चीतिमविदन् ब्रह्माण उत वीरुधः ।चीतिं ते विश्वे देवा अविदन् भूम्यामधि ॥४॥
देवाः ते चीतिम् अविदन् ब्रह्माणः उत वीरुधः ।चीतिम् ते विश्वे देवाः अविदन् भूम्याम् अधि ॥४॥
devāḥ te cītim avidan brahmāṇaḥ uta vīrudhaḥ .cītim te viśve devāḥ avidan bhūmyām adhi ..4..

यश्चकार स निष्करत्स एव सुभिषक्तमः ।स एव तुभ्यं भेषजानि कृणवद्भिषजा शुचिः ॥५॥
यः चकार स निष्करत् सः एव सुभिषक्तमः ।सः एव तुभ्यम् भेषजानि कृणवत् भिषजा शुचिः ॥५॥
yaḥ cakāra sa niṣkarat saḥ eva subhiṣaktamaḥ .saḥ eva tubhyam bheṣajāni kṛṇavat bhiṣajā śuciḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In