| |
|

This overlay will guide you through the buttons:

इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥१॥
इमाः उ त्वा पुरूवसो गिरः वर्धन्तु याः मम ।पावक-वर्णाः शुचयः विपश्चितः अभि स्तोमैः अनूषत ॥१॥
imāḥ u tvā purūvaso giraḥ vardhantu yāḥ mama .pāvaka-varṇāḥ śucayaḥ vipaścitaḥ abhi stomaiḥ anūṣata ..1..

अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे ।सत्यः सो अस्य महिमा गृने शवो यज्ञेषु विप्रराज्ये ॥२॥
अयम् सहस्रम् ऋषिभिः सहस्कृतः समुद्रः इव पप्रथे ।सत्यः सः अस्य महिमा गृने शवः यज्ञेषु विप्रराज्ये ॥२॥
ayam sahasram ṛṣibhiḥ sahaskṛtaḥ samudraḥ iva paprathe .satyaḥ saḥ asya mahimā gṛne śavaḥ yajñeṣu viprarājye ..2..

आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु ।उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥३॥
आ नः विश्वासु हव्यः इन्द्रः समत्सु भूषतु ।उप ब्रह्माणि सवनानि वृत्रहा परमज्याः ऋचीषमः ॥३॥
ā naḥ viśvāsu havyaḥ indraḥ samatsu bhūṣatu .upa brahmāṇi savanāni vṛtrahā paramajyāḥ ṛcīṣamaḥ ..3..

त्वं दाता प्रथमो राघसामस्यसि सत्य ईशानकृत्।तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥४॥
त्वम् दाता प्रथमः राघसाम् अस्यसि सत्यः ईशान-कृत्।तुवि-द्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसः महः ॥४॥
tvam dātā prathamaḥ rāghasām asyasi satyaḥ īśāna-kṛt.tuvi-dyumnasya yujyā vṛṇīmahe putrasya śavasaḥ mahaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In