| |
|

This overlay will guide you through the buttons:

त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः ।अशस्तिहा जनिता विश्वतूरसि त्वं तूर्य तरुष्यतः ॥१॥
त्वम् इन्द्र प्रतूर्तिषु अभि विश्वाः असि स्पृधः ।अशस्ति-हा जनिता विश्वतूरसि त्वम् तूर्य तरुष्यतः ॥१॥
tvam indra pratūrtiṣu abhi viśvāḥ asi spṛdhaḥ .aśasti-hā janitā viśvatūrasi tvam tūrya taruṣyataḥ ..1..

अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा ।विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥२॥
अनु ते शुष्मम् तुरयन्तम् ईयतुः क्षोणी शिशुम् न मातरा ।विश्वाः ते स्पृधः श्नथयन्त मन्यवे वृत्रम् यत् इन्द्र तूर्वसि ॥२॥
anu te śuṣmam turayantam īyatuḥ kṣoṇī śiśum na mātarā .viśvāḥ te spṛdhaḥ śnathayanta manyave vṛtram yat indra tūrvasi ..2..

इत ऊती वो अजरं प्रहेतारमप्रहितम् ।आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्यावृधम् ॥३॥
इतस् ऊती वः अजरम् प्रहेतारम् अ प्रहितम् ।आशुम् जेतारम् हेतारम् रथीतमम् अतूर्तम् तुग्र्यावृधम् ॥३॥
itas ūtī vaḥ ajaram prahetāram a prahitam .āśum jetāram hetāram rathītamam atūrtam tugryāvṛdham ..3..

यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥४॥
यः राजा चर्षणीनाम् याता रथेभिः अध्रिगुः ।विश्वासाम् तरुता पृतनानाम् ज्येष्ठः यः वृत्र-हा गृणे ॥४॥
yaḥ rājā carṣaṇīnām yātā rathebhiḥ adhriguḥ .viśvāsām tarutā pṛtanānām jyeṣṭhaḥ yaḥ vṛtra-hā gṛṇe ..4..

इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि ।हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥५॥
इन्द्रम् तम् शुम्भ पुरु-हन्मन् अवसे यस्य द्विता विधर्तरि ।हस्ताय वज्रः प्रति धायि दर्शतः महः दिवे न सूर्यः ॥५॥
indram tam śumbha puru-hanman avase yasya dvitā vidhartari .hastāya vajraḥ prati dhāyi darśataḥ mahaḥ dive na sūryaḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In