| |
|

This overlay will guide you through the buttons:

समस्य मन्यवे विशो विश्वा नमन्त कुष्टयः ।समुद्रायेव सिन्धवः ॥१॥
समस्य मन्यवे विशः विश्वाः नमन्त कुष्टयः ।समुद्राय इव सिन्धवः ॥१॥
samasya manyave viśaḥ viśvāḥ namanta kuṣṭayaḥ .samudrāya iva sindhavaḥ ..1..

ओजस्तदस्य तित्विष उभे यत्समवर्तयत्।इन्द्रश्चर्मेव रोदसी ॥२॥
ओजः तत् अस्य तित्विषे उभे यत् समवर्तयत्।इन्द्रः चर्म इव रोदसी ॥२॥
ojaḥ tat asya titviṣe ubhe yat samavartayat.indraḥ carma iva rodasī ..2..

वि चिद्वृत्रस्य दोधतो वज्रेण शतपर्वणा ।शिरो बिभेद्वृष्णिना ॥३॥
वि चित् वृत्रस्य दोधतः वज्रेण शत-पर्वणा ।शिरः बिभेत् वृष्णिना ॥३॥
vi cit vṛtrasya dodhataḥ vajreṇa śata-parvaṇā .śiraḥ bibhet vṛṣṇinā ..3..

तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः ।सद्यो जज्ञानो नि रिणाति शत्रून् अनु यदेनं मदन्ति विश्व ऊमाः ॥४॥
तत् इदास भुवनेषु ज्येष्ठम् यतस् जज्ञे उग्रः त्वेष-नृम्णः ।सद्यस् जज्ञानः नि रिणाति शत्रून् अनु यत् एनम् मदन्ति विश्वे ऊमाः ॥४॥
tat idāsa bhuvaneṣu jyeṣṭham yatas jajñe ugraḥ tveṣa-nṛmṇaḥ .sadyas jajñānaḥ ni riṇāti śatrūn anu yat enam madanti viśve ūmāḥ ..4..

वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥५॥
वावृधानः शवसा भूरि-ओजाः शत्रुः दासाय भियसम् दधाति ।अ व्यनत् च व्यनत् च सस्नि सम् ते नवन्त प्रभृताः मदेषु ॥५॥
vāvṛdhānaḥ śavasā bhūri-ojāḥ śatruḥ dāsāya bhiyasam dadhāti .a vyanat ca vyanat ca sasni sam te navanta prabhṛtāḥ madeṣu ..5..

त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः ।स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥६॥
त्वे क्रतुम् अपि पृञ्चन्ति भूरि द्विस् यत् एते त्रिस् भवन्ति ऊमाः ।स्वादोः स्वादीयः स्वादुना सृज समदः सु मधु मधुना अभि योधीः ॥६॥
tve kratum api pṛñcanti bhūri dvis yat ete tris bhavanti ūmāḥ .svādoḥ svādīyaḥ svādunā sṛja samadaḥ su madhu madhunā abhi yodhīḥ ..6..

यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः ।ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन् दुरेवासः कशोकाः ॥७॥
यदि चित् नु त्वा धना जयन्तम् रणेरणे अनुमदन्ति विप्राः ।ओजीयः शुष्मिन् स्थिरम् आ तनुष्व मा त्वा दभन् दुरेवासः कशोकाः ॥७॥
yadi cit nu tvā dhanā jayantam raṇeraṇe anumadanti viprāḥ .ojīyaḥ śuṣmin sthiram ā tanuṣva mā tvā dabhan durevāsaḥ kaśokāḥ ..7..

त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि ।चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥८॥
त्वया वयम् शाशद्महे रणेषु प्रपश्यन्तः युधेन्यानि भूरि ।चोदयामि ते आयुधा वचोभिः सम् ते शिशामि ब्रह्मणा वयांसि ॥८॥
tvayā vayam śāśadmahe raṇeṣu prapaśyantaḥ yudhenyāni bhūri .codayāmi te āyudhā vacobhiḥ sam te śiśāmi brahmaṇā vayāṃsi ..8..

नि तद्दधिषेऽवरे परे च यस्मिन्न् आविथावसा दुरोणे ।आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि ॥९॥
नि तत् दधिषे अवरे परे च यस्मिन् आविथ अवसा दुरोणे ।आ स्थापयत मातरम् जिगत्नुमतः इन्वत कर्वराणि भूरि ॥९॥
ni tat dadhiṣe avare pare ca yasmin āvitha avasā duroṇe .ā sthāpayata mātaram jigatnumataḥ invata karvarāṇi bhūri ..9..

स्तुष्व वर्ष्मन् पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम् ।आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥१०॥
स्तुष्व वर्ष्मन् पुरु-वर्त्मानम् समृभ्वाणम् इनतमम् आप्तम् आप्त्यानाम् ।आ दर्शति शवसा भूरि-ओजाः प्र सक्षति प्रतिमानम् पृथिव्याः ॥१०॥
stuṣva varṣman puru-vartmānam samṛbhvāṇam inatamam āptam āptyānām .ā darśati śavasā bhūri-ojāḥ pra sakṣati pratimānam pṛthivyāḥ ..10..

इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्नियः स्वर्षाः ।महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥११॥
इमा ब्रह्म बृहद्दिवः कृणवत् इन्द्राय शूषम् अग्नियः स्वर्षाः ।महः गोत्रस्य क्षयति स्व-राजा तुरः चित् विश्वम् अर्णवत् तपस्वान् ॥११॥
imā brahma bṛhaddivaḥ kṛṇavat indrāya śūṣam agniyaḥ svarṣāḥ .mahaḥ gotrasya kṣayati sva-rājā turaḥ cit viśvam arṇavat tapasvān ..11..

एवा महान् बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव ।स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥१२॥
एवा महान् बृहद्दिवः अथर्वा अवोचत् स्वाम् तन्वम् इन्द्रम् एव ।स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति च एने शवसा वर्धयन्ति च ॥१२॥
evā mahān bṛhaddivaḥ atharvā avocat svām tanvam indram eva .svasārau mātaribhvarī aripre hinvanti ca ene śavasā vardhayanti ca ..12..

चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् ।दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः ॥१३॥
चित्रम् देवानाम् केतुः अनीकम् ज्योतिष्मान् प्रदिशः सूर्यः उद्यन् ।दिवाकरः अति द्युम्नैः तमांसि विश्वा अतारीत् दुरितानि शुक्रः ॥१३॥
citram devānām ketuḥ anīkam jyotiṣmān pradiśaḥ sūryaḥ udyan .divākaraḥ ati dyumnaiḥ tamāṃsi viśvā atārīt duritāni śukraḥ ..13..

चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।आप्राद्द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥१४॥
चित्रम् देवानाम् उदगात् अनीकम् चक्षुः मित्रस्य वरुणस्य अग्नेः ।आप्रात् द्यावापृथिवी अन्तरिक्षम् सूर्यः आत्मा जगतः तस्थुषः च ॥१४॥
citram devānām udagāt anīkam cakṣuḥ mitrasya varuṇasya agneḥ .āprāt dyāvāpṛthivī antarikṣam sūryaḥ ātmā jagataḥ tasthuṣaḥ ca ..14..

सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात्।यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥१५॥
सूर्यः देवीम् उषसम् रोचमानाम् मर्यः न योषाम् अभ्येति पश्चात्।यत्र नरः देवयन्तः युगानि वितन्वते प्रति भद्राय भद्रम् ॥१५॥
sūryaḥ devīm uṣasam rocamānām maryaḥ na yoṣām abhyeti paścāt.yatra naraḥ devayantaḥ yugāni vitanvate prati bhadrāya bhadram ..15..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In