| |
|

This overlay will guide you through the buttons:

इन्द्रः पूर्भिदातिरद्दासमर्कैर्विदद्वसुर्दयमानो वि शत्रून् ।ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद्रोदसी उभे ॥१॥
इन्द्रः पूः-भिदा-तिरद्दासम् अर्कैः विदद्वसुः दयमानः वि शत्रून् ।ब्रह्म-जूतः तन्वा वावृधानः भूरि-दात्रः आपृणत् रोदसी उभे ॥१॥
indraḥ pūḥ-bhidā-tiraddāsam arkaiḥ vidadvasuḥ dayamānaḥ vi śatrūn .brahma-jūtaḥ tanvā vāvṛdhānaḥ bhūri-dātraḥ āpṛṇat rodasī ubhe ..1..

मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन् ।इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा ॥२॥
मखस्य ते तविषस्य प्र जूतिम् इयर्मि वाचम् अमृताय भूषन् ।इन्द्र क्षितीनाम् असि मानुषीणाम् विशाम् दैवीनाम् उत पूर्व-यावा ॥२॥
makhasya te taviṣasya pra jūtim iyarmi vācam amṛtāya bhūṣan .indra kṣitīnām asi mānuṣīṇām viśām daivīnām uta pūrva-yāvā ..2..

इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः ।अहन् व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम् ॥३॥
इन्द्रः वृत्रम् अवृणोत् शर्ध-नीतिः प्र मायिनाम् अमिनात् वर्पणीतिः ।अहन् व्यंसम् उशधक् वनेषु आविर्धेनाः अकृणोत् राम्याणाम् ॥३॥
indraḥ vṛtram avṛṇot śardha-nītiḥ pra māyinām amināt varpaṇītiḥ .ahan vyaṃsam uśadhak vaneṣu āvirdhenāḥ akṛṇot rāmyāṇām ..3..

इन्द्रः स्वर्षा जनयन्न् अहानि जिगायोशिग्भिः पृतना अभिष्टिः ।प्रारोचयन् मनवे केतुमह्नामविन्दज्ज्योतिर्बृहते रणाय ॥४॥
इन्द्रः स्वर्षाः जनयन् अहानि जिगाय उशिग्भिः पृतनाः अभिष्टिः ।प्रारोचयत् मनवे केतुम् अह्नाम् अविन्दत् ज्योतिः बृहते रणाय ॥४॥
indraḥ svarṣāḥ janayan ahāni jigāya uśigbhiḥ pṛtanāḥ abhiṣṭiḥ .prārocayat manave ketum ahnām avindat jyotiḥ bṛhate raṇāya ..4..

इन्द्रस्तुजो बर्हणा आ विवेश नृवद्दधानो नर्या पुरूणि ।अचेतयद्धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम् ॥५॥
इन्द्र-स्तुजः बर्हणाः आ विवेश नृवत् दधानः नर्या पुरूणि ।अचेतयत् धियः इमाः जरित्रे प्र इमम् वर्णम् अतिरत् शुक्र-मासाम् ॥५॥
indra-stujaḥ barhaṇāḥ ā viveśa nṛvat dadhānaḥ naryā purūṇi .acetayat dhiyaḥ imāḥ jaritre pra imam varṇam atirat śukra-māsām ..5..

महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि ।वृजनेन वृजिनान्त्सं पिपेष मायाभिर्दस्यूंरभिभूत्योजाः ॥६॥
महः महानि पनयन्ति अस्य इन्द्रस्य कर्म सु कृता पुरूणि ।वृजनेन वृजिनान् सम् पिपेष मायाभिः दस्यूंर् अभिभूति-ओजाः ॥६॥
mahaḥ mahāni panayanti asya indrasya karma su kṛtā purūṇi .vṛjanena vṛjinān sam pipeṣa māyābhiḥ dasyūṃr abhibhūti-ojāḥ ..6..

युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः ।विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥७॥
युधा इन्द्रः मह्ना वरिवः चकार देवेभ्यः सत्पतिः चर्षणि-प्राः ।विवस्वतः सदने अस्य तानि विप्राः उक्थेभिः कवयः गृणन्ति ॥७॥
yudhā indraḥ mahnā varivaḥ cakāra devebhyaḥ satpatiḥ carṣaṇi-prāḥ .vivasvataḥ sadane asya tāni viprāḥ ukthebhiḥ kavayaḥ gṛṇanti ..7..

सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः ।ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥८॥
सत्रासाहम् वरेण्यम् सहः-दाम् ससवांसम् स्वरपः च देवीः ।ससान यः पृथिवीम् द्याम् उत इमाम् इन्द्रम् मदन्ति अनु धीरणासः ॥८॥
satrāsāham vareṇyam sahaḥ-dām sasavāṃsam svarapaḥ ca devīḥ .sasāna yaḥ pṛthivīm dyām uta imām indram madanti anu dhīraṇāsaḥ ..8..

ससानात्यामुत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् ।हिरण्ययमुत भोगं ससान हत्वी दस्यून् प्रार्यं वर्णमावत्॥९॥
ससान अत्याम् उत सूर्यम् ससान इन्द्रः ससान पुरुभोजसम् गाम् ।हिरण्ययम् उत भोगम् ससान हत्वी दस्यून् प्र आर्यम् वर्णम् आवत्॥९॥
sasāna atyām uta sūryam sasāna indraḥ sasāna purubhojasam gām .hiraṇyayam uta bhogam sasāna hatvī dasyūn pra āryam varṇam āvat..9..

इन्द्र ओषधीरसनोदहानि वनस्पतींरसनोदन्तरिक्षम् ।बिभेद बलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम् ॥१०॥
इन्द्रः ओषधीः रसना उदहानि वनस्पतीः रसना उदन्तरिक्षम् ।बिभेद बलम् नुनुदे विवाचः अथ अभवत् दमिता अभिक्रतूनाम् ॥१०॥
indraḥ oṣadhīḥ rasanā udahāni vanaspatīḥ rasanā udantarikṣam .bibheda balam nunude vivācaḥ atha abhavat damitā abhikratūnām ..10..

शुनं हुवेम मघवानमिन्द्रमस्मिन् भरे नृतमं वाजसातौ ।शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥११॥
शुनम् हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमम् वाजसातौ ।शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तम् वृत्राणि संजितम् धनानाम् ॥११॥
śunam huvema maghavānam indram asmin bhare nṛtamam vājasātau .śṛṇvantam ugram ūtaye samatsu ghnantam vṛtrāṇi saṃjitam dhanānām ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In