| |
|

This overlay will guide you through the buttons:

उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ ।आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥१॥
उदु ब्रह्माणि ऐरत श्रवस्या इन्द्रम् समर्ये महय वसिष्ठ ।आ यः विश्वानि शवसा ततान उपश्रोता मे ईवतः वचांसि ॥१॥
udu brahmāṇi airata śravasyā indram samarye mahaya vasiṣṭha .ā yaḥ viśvāni śavasā tatāna upaśrotā me īvataḥ vacāṃsi ..1..

अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि ।नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् ॥२॥
अयामि घोषः इन्द्र देव-जामिः इरज्यन्त यत् शुरुधः विवाचि ।नहि स्वम् आयुः चिकिते जनेषु तानि इद् अंहांसि अति पर्षि अस्मान् ॥२॥
ayāmi ghoṣaḥ indra deva-jāmiḥ irajyanta yat śurudhaḥ vivāci .nahi svam āyuḥ cikite janeṣu tāni id aṃhāṃsi ati parṣi asmān ..2..

युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः ।वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्यप्रती जघन्वान् ॥३॥
युजे रथम् गवेषणम् हरिभ्याम् उप ब्रह्माणि जुजुषाणम् अस्थुः ।वि बाधिष्ट स्य रोदसी महित्वा इन्द्रः वृत्राणि अप्रती जघन्वान् ॥३॥
yuje ratham gaveṣaṇam haribhyām upa brahmāṇi jujuṣāṇam asthuḥ .vi bādhiṣṭa sya rodasī mahitvā indraḥ vṛtrāṇi apratī jaghanvān ..3..

आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस्त इन्द्र ।याहि वायुर्न नियुतो नो अछा त्वं हि धीभिर्दयसे वि वाजान् ॥४॥
आपः चित् पिप्युः स्तर्यः न गावः नक्षन् ऋतम् जरितारः ते इन्द्र ।याहि वायुः न नियुतः नः अछा त्वम् हि धीभिः दयसे वि वाजान् ॥४॥
āpaḥ cit pipyuḥ staryaḥ na gāvaḥ nakṣan ṛtam jaritāraḥ te indra .yāhi vāyuḥ na niyutaḥ naḥ achā tvam hi dhībhiḥ dayase vi vājān ..4..

ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे ।एको देवत्रा दयसे हि मर्तान् अस्मिन् छूर सवने मादयस्व ॥५॥
ते त्वा मदाः इन्द्र मादयन्तु शुष्मिणम् तुवि-राधसम् जरित्रे ।एकः देवत्रा दयसे हि मर्तान् अस्मिन् शूर सवने मादयस्व ॥५॥
te tvā madāḥ indra mādayantu śuṣmiṇam tuvi-rādhasam jaritre .ekaḥ devatrā dayase hi martān asmin śūra savane mādayasva ..5..

एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः ।स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥६॥
एव इद् इन्द्रम् वृषणम् वज्र-बाहुम् वसिष्ठासः अभ्यर्चन्ति अर्कैः ।स नः स्तुतः वीरवत् धातु गोमत् यूयम् पात स्वस्तिभिः सदा नः ॥६॥
eva id indram vṛṣaṇam vajra-bāhum vasiṣṭhāsaḥ abhyarcanti arkaiḥ .sa naḥ stutaḥ vīravat dhātu gomat yūyam pāta svastibhiḥ sadā naḥ ..6..

ऋजीषी वज्री वृषभस्तुराषाट्छुष्मी राजा वृत्रहा सोमपावा ।युक्त्वा हरिभ्यामुप यासदर्वाङ्माध्यंदिने सवने मत्सदिन्द्रः ॥७॥
ऋजीषी वज्री वृषभः तुराषाह् शुष्मी राजा वृत्र-हा सोम-पावा ।युक्त्वा हरिभ्याम् उप यासत् अर्वाक् माध्यंदिने सवने मत्सत् इन्द्रः ॥७॥
ṛjīṣī vajrī vṛṣabhaḥ turāṣāh śuṣmī rājā vṛtra-hā soma-pāvā .yuktvā haribhyām upa yāsat arvāk mādhyaṃdine savane matsat indraḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In