| |
|

This overlay will guide you through the buttons:

कया नश्चित्र आ भुवदूती सदावृधः सखा ।कया शचिष्ठया वृता ॥१॥
कया नः चित्रः आ भुवत् ऊती सदावृधः सखा ।कया शचिष्ठया वृता ॥१॥
kayā naḥ citraḥ ā bhuvat ūtī sadāvṛdhaḥ sakhā .kayā śaciṣṭhayā vṛtā ..1..

कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः ।दृल्हा चिदारुजे वसु ॥२॥
कः त्वा सत्यः मदानाम् मंहिष्ठः मत्सत् अन्धसः ।दृल्हा चिद्-आरुजे वसु ॥२॥
kaḥ tvā satyaḥ madānām maṃhiṣṭhaḥ matsat andhasaḥ .dṛlhā cid-āruje vasu ..2..

अभी षु नः सखीनामविता जरितॄणाम् ।शतं भवास्यूतिभिः ॥३॥
अभी सु नः सखीनाम् अविता जरितॄणाम् ।शतम् भवासि ऊतिभिः ॥३॥
abhī su naḥ sakhīnām avitā jaritṝṇām .śatam bhavāsi ūtibhiḥ ..3..

इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ।यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति ॥४॥
इमा नु कम् भुवना सीषधाम इन्द्रः च विश्वे च देवाः ।यज्ञम् च नः तन्वम् च प्रजाम् च आदित्यैः इन्द्रः सह चीकॢपाति ॥४॥
imā nu kam bhuvanā sīṣadhāma indraḥ ca viśve ca devāḥ .yajñam ca naḥ tanvam ca prajām ca ādityaiḥ indraḥ saha cīkḷpāti ..4..

आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् ।हत्वाय देवा असुरान् यदायन् देवा देवत्वमभिरक्षमाणाः ॥५॥
आदित्यैः इन्द्रः स गणः मरुद्भिः अस्माकम् भूत्वा अविता तनूनाम् ।हत्वाय देवाः असुरान् यदा अयन् देवाः देव-त्वम् अभिरक्षमाणाः ॥५॥
ādityaiḥ indraḥ sa gaṇaḥ marudbhiḥ asmākam bhūtvā avitā tanūnām .hatvāya devāḥ asurān yadā ayan devāḥ deva-tvam abhirakṣamāṇāḥ ..5..

प्रत्यञ्चमर्कमनयं छचीभिरादित्स्वधामिषिरां पर्यपश्यन् ।अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥६॥
प्रत्यञ्चम् अर्कम् अनयम् शचीभिः आदित्-स्वधाम् इषिराम् पर्यपश्यन् ।अया वाजम् देव-हितम् सनेम मदेम शत-हिमाः सु वीराः ॥६॥
pratyañcam arkam anayam śacībhiḥ ādit-svadhām iṣirām paryapaśyan .ayā vājam deva-hitam sanema madema śata-himāḥ su vīrāḥ ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In