| |
|

This overlay will guide you through the buttons:

अपेन्द्र प्राचो मघवन्न् अमित्रान् अपापाचो अभिभूते नुदस्व ।अपोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम ॥१॥
अप इन्द्र प्राचः मघवन् अमित्रान् अप अपाचः अभिभूते नुदस्व ।अप उदीचः अप शूर अधराचः उरौ यथा तव शर्मन् मदेम ॥१॥
apa indra prācaḥ maghavan amitrān apa apācaḥ abhibhūte nudasva .apa udīcaḥ apa śūra adharācaḥ urau yathā tava śarman madema ..1..

कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय ।इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥२॥
कुविद् अङ्ग यवमन्तः यवम् चित् यथा दान्ति अनुपूर्वम् वियूय ।इह इह एषाम् कृणुहि भोजनानि ये बर्हिषः नमोवृक्तिम् न जग्मुः ॥२॥
kuvid aṅga yavamantaḥ yavam cit yathā dānti anupūrvam viyūya .iha iha eṣām kṛṇuhi bhojanāni ye barhiṣaḥ namovṛktim na jagmuḥ ..2..

नहि स्थूर्यृतुथा यातमस्ति नोत श्रवो विविदे संगमेषु ।गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥३॥
नहि स्थूरि ऋतुथा यातम् अस्ति न उत श्रवः विविदे संगमेषु ।गव्यन्तः इन्द्रम् सख्याय विप्राः अश्वायन्तः वृषणम् वाजयन्तः ॥३॥
nahi sthūri ṛtuthā yātam asti na uta śravaḥ vivide saṃgameṣu .gavyantaḥ indram sakhyāya viprāḥ aśvāyantaḥ vṛṣaṇam vājayantaḥ ..3..

युवं सुराममश्विना नमुचावासुरे सचा ।विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् ॥४॥
युवम् सु रामम् अश्विना नमुचौ आसुरे सचा ।विपिपाना शुभस्पती इन्द्रम् कर्मस्व अवतम् ॥४॥
yuvam su rāmam aśvinā namucau āsure sacā .vipipānā śubhaspatī indram karmasva avatam ..4..

पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः ।यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक्॥५॥
पुत्रम् इव पितरौ अश्विना उभा इन्द्र आवथुः काव्यैः दंसनाभिः ।यत् सु रामम् व्यपिबः शचीभिः सरस्वती त्वा मघवन् अभिष्णक्॥५॥
putram iva pitarau aśvinā ubhā indra āvathuḥ kāvyaiḥ daṃsanābhiḥ .yat su rāmam vyapibaḥ śacībhiḥ sarasvatī tvā maghavan abhiṣṇak..5..

इन्द्रः सुत्रामा स्ववामवोभिः सुमृडीको भवतु विश्ववेदाः ।बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥६॥
इन्द्रः सुत्रामा सु अवाम-वोभिः सु मृडीकः भवतु विश्व-वेदाः ।बाधताम् द्वेषः अभयम् नः कृणोतु सु वीर्यस्य पतयः स्याम ॥६॥
indraḥ sutrāmā su avāma-vobhiḥ su mṛḍīkaḥ bhavatu viśva-vedāḥ .bādhatām dveṣaḥ abhayam naḥ kṛṇotu su vīryasya patayaḥ syāma ..6..

स सुत्रामा स्ववामिन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु ।तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥७॥
स सुत्रामा स्ववाम् इन्द्रः अस्मद्-आरात् चित् द्वेषः सनुतर् युयोतु ।तस्य वयम् सुमतौ यज्ञियस्य अपि भद्रे सौमनसे स्याम ॥७॥
sa sutrāmā svavām indraḥ asmad-ārāt cit dveṣaḥ sanutar yuyotu .tasya vayam sumatau yajñiyasya api bhadre saumanase syāma ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In