| |
|

This overlay will guide you through the buttons:

वि हि सोतोरसृक्षत नेन्द्रं देवममंसत ।यत्रामदद्वृषाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्र उत्तरः ॥१॥
वि हि सोतोः असृक्षत न इन्द्रम् देवम् अमंसत ।यत्र अमदत् वृषाकपिः अर्यः पुष्टेषु मद्-सखा विश्वस्मात् इन्द्रः उत्तरः ॥१॥
vi hi sotoḥ asṛkṣata na indram devam amaṃsata .yatra amadat vṛṣākapiḥ aryaḥ puṣṭeṣu mad-sakhā viśvasmāt indraḥ uttaraḥ ..1..

परा हीन्द्र धावसि वृषाकपेरति व्यथिः ।नो अह प्र विन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः ॥२॥
परा हि इन्द्र धावसि वृषाकपेः अति व्यथिः ।न उ अह प्र विन्दसि अन्यत्र सोम-पीतये विश्वस्मात् इन्द्रः उत्तरः ॥२॥
parā hi indra dhāvasi vṛṣākapeḥ ati vyathiḥ .na u aha pra vindasi anyatra soma-pītaye viśvasmāt indraḥ uttaraḥ ..2..

किमयं त्वां वृषाकपिश्चकार हरितो मृगः ।यस्मा इरस्यसीदु न्वर्यो वा पुष्टिमद्वसु विश्वस्मादिन्द्र उत्तरः ॥३॥
किम् अयम् त्वाम् वृषाकपिः चकार हरितः मृगः ।यस्मै इरसि असीदु नु अर्यः वा पुष्टिमत् वसु विश्वस्मात् इन्द्रः उत्तरः ॥३॥
kim ayam tvām vṛṣākapiḥ cakāra haritaḥ mṛgaḥ .yasmai irasi asīdu nu aryaḥ vā puṣṭimat vasu viśvasmāt indraḥ uttaraḥ ..3..

यमिमं त्वं वृषाकपिं प्रियमिन्द्राभिरक्षसि ।श्वा न्वस्य जम्भिषदपि कर्णे वराहयुर्विश्वस्मादिन्द्र उत्तरः ॥४॥
यम् इमम् त्वम् वृषाकपिम् प्रियम् इन्द्र अभिरक्षसि ।श्वा नु अस्य जम्भिषत् अपि कर्णे वराहयुः विश्वस्मात् इन्द्रः उत्तरः ॥४॥
yam imam tvam vṛṣākapim priyam indra abhirakṣasi .śvā nu asya jambhiṣat api karṇe varāhayuḥ viśvasmāt indraḥ uttaraḥ ..4..

प्रिया तष्टानि मे कपिर्व्यक्ता व्यदूदुषत्।शिरो न्वस्य राविषं न सुगं दुष्कृते भुवं विश्वस्मादिन्द्र उत्तरः ॥५॥
प्रिया तष्टानि मे कपिः व्यक्ता व्यदूदुषत्।शिरः नु अस्य राविषम् न सुगम् दुष्कृते भुवम् विश्वस्मात् इन्द्रः उत्तरः ॥५॥
priyā taṣṭāni me kapiḥ vyaktā vyadūduṣat.śiraḥ nu asya rāviṣam na sugam duṣkṛte bhuvam viśvasmāt indraḥ uttaraḥ ..5..

न मत्स्त्री सुभसत्तरा न सुयाशुतरा भुवत्।न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिन्द्र उत्तरः ॥६॥
न मत् स्त्री सुभसत्तरा न सुयाशुतरा भुवत्।न मत् प्रतिच्यवीयसी न सक्थि-उद्यमीयसी विश्वस्मात् इन्द्रः उत्तरः ॥६॥
na mat strī subhasattarā na suyāśutarā bhuvat.na mat praticyavīyasī na sakthi-udyamīyasī viśvasmāt indraḥ uttaraḥ ..6..

उवे अम्ब सुलाभिके यथेवाङ्गं भविष्यति ।भसन् मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्मादिन्द्र उत्तरः ॥७॥
अम्ब सु लाभिके यथा इव अङ्गम् भविष्यति ।भसद् मे अम्ब सक्थि मे शिरः मे वि इव हृष्यति विश्वस्मात् इन्द्रः उत्तरः ॥७॥
amba su lābhike yathā iva aṅgam bhaviṣyati .bhasad me amba sakthi me śiraḥ me vi iva hṛṣyati viśvasmāt indraḥ uttaraḥ ..7..

किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने ।किं शूरपत्नि नस्त्वमभ्यमीषि वृषाकपिं विश्वस्मादिन्द्र उत्तरः ॥८॥
किम् सु बाहो सु अङ्गुरे ।किम् शूर-पत्नि नः त्वम् अभ्यमीषि वृषाकपिम् विश्वस्मात् इन्द्रः उत्तरः ॥८॥
kim su bāho su aṅgure .kim śūra-patni naḥ tvam abhyamīṣi vṛṣākapim viśvasmāt indraḥ uttaraḥ ..8..

अवीरामिव मामयं शरारुरभि मन्यते ।उताहमस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः ॥९॥
अवीराम् इव माम् अयम् शरारुः अभि मन्यते ।उत अहम् अस्मि वीरिणी इन्द्र-पत्नी मरुत्-सखा विश्वस्मात् इन्द्रः उत्तरः ॥९॥
avīrām iva mām ayam śarāruḥ abhi manyate .uta aham asmi vīriṇī indra-patnī marut-sakhā viśvasmāt indraḥ uttaraḥ ..9..

संहोत्रं स्म पुरा नारी समनं वाव गच्छति ।वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः ॥१०॥
संहोत्रम् स्म पुरा नारी समनम् वाव गच्छति ।वेधाः ऋतस्य वीरिणी इन्द्र-पत्नी महीयते विश्वस्मात् इन्द्रः उत्तरः ॥१०॥
saṃhotram sma purā nārī samanam vāva gacchati .vedhāḥ ṛtasya vīriṇī indra-patnī mahīyate viśvasmāt indraḥ uttaraḥ ..10..

इन्द्राणीमासु नारिषु सुभगामहमश्रवम् ।नह्यस्या अपरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ॥११॥
इन्द्राणि इमासु नारिषु सुभगाम् अहम् अश्रवम् ।न हि अस्याः अपरम् चन जरसा मरते पतिः विश्वस्मात् इन्द्रः उत्तरः ॥११॥
indrāṇi imāsu nāriṣu subhagām aham aśravam .na hi asyāḥ aparam cana jarasā marate patiḥ viśvasmāt indraḥ uttaraḥ ..11..

नाहमिन्द्राणि रारण सख्युर्वृषाकपेर्ऋते ।यस्येदमप्यं हविः प्रियं देवेषु गच्छति विश्वस्मादिन्द्र उत्तरः ॥१२॥
न अहम् इन्द्राणि रारण सख्युः वृषाकपेः ऋते ।यस्य इदम् अप्यम् हविः प्रियम् देवेषु गच्छति विश्वस्मात् इन्द्रः उत्तरः ॥१२॥
na aham indrāṇi rāraṇa sakhyuḥ vṛṣākapeḥ ṛte .yasya idam apyam haviḥ priyam deveṣu gacchati viśvasmāt indraḥ uttaraḥ ..12..

वृषाकपायि रेवति सुपुत्र आदु सुस्नुषे ।घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः ॥१३॥
वृषाकपायि रेवति सु पुत्रे आदु सु स्नुषे ।घसत् ते इन्द्रः उक्षणः प्रियम् काचित्करम् हविः विश्वस्मात् इन्द्रः उत्तरः ॥१३॥
vṛṣākapāyi revati su putre ādu su snuṣe .ghasat te indraḥ ukṣaṇaḥ priyam kācitkaram haviḥ viśvasmāt indraḥ uttaraḥ ..13..

उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंसतिम् ।उताहमद्मि पीव इदुभा कुक्षी पृणन्ति मे विश्वस्मादिन्द्र उत्तरः ॥१४॥
उक्ष्णः हि मे पञ्चदश साकम् पचन्ति विंसतिम् ।उत अहम् अद्मि पीवः इद् उभा कुक्षी पृणन्ति मे विश्वस्मात् इन्द्रः उत्तरः ॥१४॥
ukṣṇaḥ hi me pañcadaśa sākam pacanti viṃsatim .uta aham admi pīvaḥ id ubhā kukṣī pṛṇanti me viśvasmāt indraḥ uttaraḥ ..14..

वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत्।मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः ॥१५॥
वृषभः न तिग्म-शृङ्गः अन्तर् यूथेषु रोरुवत्।मन्थः ते इन्द्र शम् हृदे यम् ते सुनोति भावयुः विश्वस्मात् इन्द्रः उत्तरः ॥१५॥
vṛṣabhaḥ na tigma-śṛṅgaḥ antar yūtheṣu roruvat.manthaḥ te indra śam hṛde yam te sunoti bhāvayuḥ viśvasmāt indraḥ uttaraḥ ..15..

न सेशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत्।सेदीशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्मादिन्द्र उत्तरः ॥१६॥
न स ईशे यस्य लम्बते अन्तरा कपृथ्।सेत् ईशे यस्य रोमशम् निषेदुषः विजृम्भते विश्वस्मात् इन्द्रः उत्तरः ॥१६॥
na sa īśe yasya lambate antarā kapṛth.set īśe yasya romaśam niṣeduṣaḥ vijṛmbhate viśvasmāt indraḥ uttaraḥ ..16..

न सेशे यस्य रोमशं निषेदुषो विजृम्भते ।सेदीशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत्विश्वस्मादिन्द्र उत्तरः ॥१७॥
न स ईशे यस्य रोमशम् निषेदुषः विजृम्भते ।स इद् ईशे यस्य रम्बते अन्तरा क-पृत्विश्वस्मात् इन्द्रः उत्तरः ॥१७॥
na sa īśe yasya romaśam niṣeduṣaḥ vijṛmbhate .sa id īśe yasya rambate antarā ka-pṛtviśvasmāt indraḥ uttaraḥ ..17..

अयमिन्द्र वृषाकपिः परस्वन्तं हतं विदत्।असिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः ॥१८॥
अयम् इन्द्र वृषाकपिः परस्वन्तम् हतम् विदत्।असिम् सूनाम् नवम् चरुम् आ देधस्य अनः आचितम् विश्वस्मात् इन्द्रः उत्तरः ॥१८॥
ayam indra vṛṣākapiḥ parasvantam hatam vidat.asim sūnām navam carum ā dedhasya anaḥ ācitam viśvasmāt indraḥ uttaraḥ ..18..

अयमेमि विचाकशद्विचिन्वन् दासमार्यम् ।पिबामि पाकसुत्वनोऽभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः ॥१९॥
अयम् एमि विचाकशत् विचिन्वन् दासम् आर्यम् ।पिबामि पाकसुत्वनः अभि धीरम् अचाकशम् विश्वस्मात् इन्द्रः उत्तरः ॥१९॥
ayam emi vicākaśat vicinvan dāsam āryam .pibāmi pākasutvanaḥ abhi dhīram acākaśam viśvasmāt indraḥ uttaraḥ ..19..

धन्व च यत्कृन्तत्रं च कति स्वित्ता वि योजना ।नेदीयसो वृषाकपेऽस्तमेहि गृहामुप विश्वस्मादिन्द्र उत्तरः ॥२०॥
धन्व च यत् कृन्तत्रम् च कति स्वित्ता वि योजना ।नेदीयसः वृषाकपे अस्तम् एहि गृहाम् उप विश्वस्मात् इन्द्रः उत्तरः ॥२०॥
dhanva ca yat kṛntatram ca kati svittā vi yojanā .nedīyasaḥ vṛṣākape astam ehi gṛhām upa viśvasmāt indraḥ uttaraḥ ..20..

पुनरेहि वृषाकपे सुविता कल्पयावहै ।य एष स्वप्ननंशनोऽस्तमेषि पथा पुनर्विश्वस्मादिन्द्र उत्तरः ॥२१॥
पुनर् एहि वृषाकपे सुविता कल्पयावहै ।यः एष स्वप्ननंशनः अस्तम् एषि पथा पुनर् विश्वस्मात् इन्द्रः उत्तरः ॥२१॥
punar ehi vṛṣākape suvitā kalpayāvahai .yaḥ eṣa svapnanaṃśanaḥ astam eṣi pathā punar viśvasmāt indraḥ uttaraḥ ..21..

यदुदञ्चो वृषाकपे गृहमिन्द्राजगन्तन ।क्व स्य पुल्वघो मृगः कमगं जनयोपनो विश्वस्मादिन्द्र उत्तरः ॥२२॥
यत् उदञ्चः वृषाकपे गृहम् इन्द्र अजगन्तन ।क्व स्य पुलु-अघः मृगः कम् अगम् जन-योपनः विश्वस्मात् इन्द्रः उत्तरः ॥२२॥
yat udañcaḥ vṛṣākape gṛham indra ajagantana .kva sya pulu-aghaḥ mṛgaḥ kam agam jana-yopanaḥ viśvasmāt indraḥ uttaraḥ ..22..

पर्शुर्ह नाम मानवी साकं ससूव विंशतिम् ।भद्रं भल त्यस्या अभूद्यस्या उदरमामयद्विश्वस्मादिन्द्र उत्तरः ॥२३॥
पर्शुः ह नाम मानवी साकम् ससूव विंशतिम् ।भद्रम् भल त्यस्याः अभूत् यस्याः उदरम् आमयत् विश्वस्मात् इन्द्रः उत्तरः ॥२३॥
parśuḥ ha nāma mānavī sākam sasūva viṃśatim .bhadram bhala tyasyāḥ abhūt yasyāḥ udaram āmayat viśvasmāt indraḥ uttaraḥ ..23..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In