| |
|

This overlay will guide you through the buttons:

इदं जना उप श्रुत नराशंस स्तविष्यते ।षष्टिं सहस्रा नवतिं च कौरम आ रुशमेषु दद्महे ॥१॥
इदम् जनाः उप श्रुत नराशंस स्तविष्यते ।षष्टिम् सहस्रा नवतिम् च कौरमे आ रुशमेषु दद्महे ॥१॥
idam janāḥ upa śruta narāśaṃsa staviṣyate .ṣaṣṭim sahasrā navatim ca kaurame ā ruśameṣu dadmahe ..1..

उष्ट्रा यस्य प्रवाहणो वधूमन्तो द्विर्दश ।वर्ष्मा रथस्य नि जिहीडते दिव ईषमाणा उपस्पृशः ॥२॥
उष्ट्राः यस्य प्रवाहणः वधूमन्तः द्विस् दश ।वर्ष्मा रथस्य नि जिहीडते दिवः ईषमाणाः उपस्पृशः ॥२॥
uṣṭrāḥ yasya pravāhaṇaḥ vadhūmantaḥ dvis daśa .varṣmā rathasya ni jihīḍate divaḥ īṣamāṇāḥ upaspṛśaḥ ..2..

एष इषाय मामहे शतं निष्कान् दश स्रजः ।त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ॥३॥
एषः इषाय मामहे शतम् निष्कान् दश स्रजः ।त्रीणि शतानि अर्वताम् सहस्रा दश गोनाम् ॥३॥
eṣaḥ iṣāya māmahe śatam niṣkān daśa srajaḥ .trīṇi śatāni arvatām sahasrā daśa gonām ..3..

वच्यस्व रेभ वच्यस्व वृक्षे न पक्वे शकुनः ।नष्टे जिह्वा चर्चरीति क्षुरो न भुरिजोरिव ॥४॥
वच्यस्व रेभ वच्यस्व वृक्षे न पक्वे शकुनः ।नष्टे जिह्वा चर्चरीति क्षुरः न भुरिजोः इव ॥४॥
vacyasva rebha vacyasva vṛkṣe na pakve śakunaḥ .naṣṭe jihvā carcarīti kṣuraḥ na bhurijoḥ iva ..4..

प्र रेभासो मनीषा वृषा गाव इवेरते ।अमोतपुत्रका एषाममोत गा इवासते ॥५॥
प्र रेभासः मनीषा वृषाः गावः इव ईरते ।अमा उत पुत्रकाः एषाम् अमा उत गाः इव आसते ॥५॥
pra rebhāsaḥ manīṣā vṛṣāḥ gāvaḥ iva īrate .amā uta putrakāḥ eṣām amā uta gāḥ iva āsate ..5..

प्र रेभ धीं भरस्व गोविदं वसुविदम् ।देवत्रेमां वाचं स्रीणीहीषुर्नावीरस्तारम् ॥६॥
प्र रेभ धीम् भरस्व गो-विदम् वसु-विदम् ।देवत्रा इमाम् वाचम् स्रीणीहि इषुः न अ वीरः तारम् ॥६॥
pra rebha dhīm bharasva go-vidam vasu-vidam .devatrā imām vācam srīṇīhi iṣuḥ na a vīraḥ tāram ..6..

राज्ञो विश्वजनीनस्य यो देवोमर्त्यामति ।वैश्वानरस्य सुष्टुतिमा सुनोता परिक्षितः ॥७॥
राज्ञः विश्वजनीनस्य यः ।वैश्वानरस्य सुष्टुतिमा सुनोता परिक्षितः ॥७॥
rājñaḥ viśvajanīnasya yaḥ .vaiśvānarasya suṣṭutimā sunotā parikṣitaḥ ..7..

परिछिन्नः क्षेममकरोत्तम आसनमाचरन् ।कुलायन् कृण्वन् कौरव्यः पतिर्वदति जायया ॥८॥
परिछिन्नः क्षेमम् अकरोत् तमः आसनम् आचरन् ।कुलायन् कृण्वन् कौरव्यः पतिः वदति जायया ॥८॥
parichinnaḥ kṣemam akarot tamaḥ āsanam ācaran .kulāyan kṛṇvan kauravyaḥ patiḥ vadati jāyayā ..8..

कतरत्त आ हराणि दधि मन्थां परि श्रुतम् ।जायाः पतिं वि पृच्छति राष्ट्रे राज्ञः परिक्षितः ॥९॥
कतरत्तस् आ हराणि दधि मन्थाम् परि श्रुतम् ।जायाः पतिम् वि पृच्छति राष्ट्रे राज्ञः परिक्षितः ॥९॥
katarattas ā harāṇi dadhi manthām pari śrutam .jāyāḥ patim vi pṛcchati rāṣṭre rājñaḥ parikṣitaḥ ..9..

अभीवस्वः प्र जिहीते यवः पक्वः पथो बिलम् ।जनः स भद्रमेधति राष्ट्रे राज्ञः परिक्षितः ॥१०॥
अभीवस्वः प्र जिहीते यवः पक्वः पथः बिलम् ।जनः स भद्रमेधति राष्ट्रे राज्ञः परिक्षितः ॥१०॥
abhīvasvaḥ pra jihīte yavaḥ pakvaḥ pathaḥ bilam .janaḥ sa bhadramedhati rāṣṭre rājñaḥ parikṣitaḥ ..10..

इन्द्रः कारुमबूबुधदुत्तिष्ठ वि चरा जनम् ।ममेदुग्रस्य चर्कृधि सर्व इत्ते पृणादरिः ॥११॥
इन्द्रः कारुम् अबूबुधत् उत्तिष्ठ वि चर जनम् ।मम इद् उग्रस्य चर्कृधि सर्वः इद् ते पृणात् अरिः ॥११॥
indraḥ kārum abūbudhat uttiṣṭha vi cara janam .mama id ugrasya carkṛdhi sarvaḥ id te pṛṇāt ariḥ ..11..

इह गावः प्र जायध्वमिहाश्वा इह पूरुषाः ।इहो सहस्रदक्षिणोपि पूषा नि षीदति ॥१२॥
इह गावः प्र जायध्वम् इह अश्वाः इह पूरुषाः ।इह उ सहस्र-दक्षिणाः उपि पूषा नि सीदति ॥१२॥
iha gāvaḥ pra jāyadhvam iha aśvāḥ iha pūruṣāḥ .iha u sahasra-dakṣiṇāḥ upi pūṣā ni sīdati ..12..

नेमा इन्द्र गावो रिषन् मो आसां गोप रीरिषत्।मासाममित्रयुर्जन इन्द्र मा स्तेन ईशत ॥१३॥
न इमाः इन्द्र गावः रिषत् मा उ आसाम् गोप रीरिषत्।मा आसाम् अमित्रयुः जनः इन्द्र मा स्तेनः ईशत ॥१३॥
na imāḥ indra gāvaḥ riṣat mā u āsām gopa rīriṣat.mā āsām amitrayuḥ janaḥ indra mā stenaḥ īśata ..13..

उप नो न रमसि सूक्तेन वचसा वयं भद्रेण वचसा वयम् ।वनादधिध्वनो गिरो न रिष्येम कदा चन ॥१४॥
उप नः न रमसि सूक्तेन वचसा वयम् भद्रेण वचसा वयम् ।वनात् अधिध्वनः गिरः न रिष्येम कदा चन ॥१४॥
upa naḥ na ramasi sūktena vacasā vayam bhadreṇa vacasā vayam .vanāt adhidhvanaḥ giraḥ na riṣyema kadā cana ..14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In