| |
|

This overlay will guide you through the buttons:

यः सभेयो विदथ्यः सुत्वा यज्वाथ पूरुषः ।सूर्यं चामू रिशादसस्तद्देवाः प्रागकल्पयन् ॥१॥
यः सभेयः विदथ्यः सुत्वा यज्वा अथ पूरुषः ।सूर्यम् च अमुः रिशादसः तत् देवाः प्राक् अकल्पयन् ॥१॥
yaḥ sabheyaḥ vidathyaḥ sutvā yajvā atha pūruṣaḥ .sūryam ca amuḥ riśādasaḥ tat devāḥ prāk akalpayan ..1..

यो जाम्या अप्रथयस्तद्यत्सखायं दुधूर्षति ।ज्येष्ठो यदप्रचेतास्तदाहुरधरागिति ॥२॥
यः जाम्यै अप्रथयः तत् यत् सखायम् दुधूर्षति ।ज्येष्ठः यत् अप्रचेताः तत् आहुः अधराक् इति ॥२॥
yaḥ jāmyai aprathayaḥ tat yat sakhāyam dudhūrṣati .jyeṣṭhaḥ yat apracetāḥ tat āhuḥ adharāk iti ..2..

यद्भद्रस्य पुरुषस्य पुत्रो भवति दाधृषिः ।तद्विप्रो अब्रवीदु तद्गन्धर्वः काम्यं वचः ॥३॥
यत् भद्रस्य पुरुषस्य पुत्रः भवति दाधृषिः ।तत् विप्रः अब्रवीत् उ तत् गन्धर्वः काम्यम् वचः ॥३॥
yat bhadrasya puruṣasya putraḥ bhavati dādhṛṣiḥ .tat vipraḥ abravīt u tat gandharvaḥ kāmyam vacaḥ ..3..

यश्च पणि रघुजिष्ठ्यो यश्च देवामदाशुरिः ।धीराणां शश्वतामहं तदपागिति शुश्रुम ॥४॥
यः च पणि रघुजिष्ठ्यः यः च देवामदाशुरिः ।धीराणाम् शश्वताम् अहम् तत् अपाक् इति शुश्रुम ॥४॥
yaḥ ca paṇi raghujiṣṭhyaḥ yaḥ ca devāmadāśuriḥ .dhīrāṇām śaśvatām aham tat apāk iti śuśruma ..4..

ये च देवा अयजन्ताथो ये च पराददिः ।सूर्यो दिवमिव गत्वाय मघवा नो वि रप्शते ॥५॥
ये च देवाः अयजन्त अथ उ ये च पराददिः ।सूर्यः दिवम् इव गत्वाय मघवा नः वि रप्शते ॥५॥
ye ca devāḥ ayajanta atha u ye ca parādadiḥ .sūryaḥ divam iva gatvāya maghavā naḥ vi rapśate ..5..

योऽनाक्ताक्षो अनभ्यक्तो अमणिवो अहिरण्यवः ।अब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता ॥६॥
यः अन् आक्त-अक्षः अन् अभ्यक्तः अ मणिवस् अ हिरण्यवस् ।अब्रह्मा ब्रह्मणः पुत्रः तोता कल्पेषु संमिता ॥६॥
yaḥ an ākta-akṣaḥ an abhyaktaḥ a maṇivas a hiraṇyavas .abrahmā brahmaṇaḥ putraḥ totā kalpeṣu saṃmitā ..6..

य आक्ताक्षः सुभ्यक्तः सुमणिः सुहिरण्यवः ।सुब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता ॥७॥
यः आक्त-अक्षः सुभ्यक्तः सु मणिः सु हिरण्यवः ।सुब्रह्मा ब्रह्मणः पुत्रः तोता कल्पेषु संमिता ॥७॥
yaḥ ākta-akṣaḥ subhyaktaḥ su maṇiḥ su hiraṇyavaḥ .subrahmā brahmaṇaḥ putraḥ totā kalpeṣu saṃmitā ..7..

प्रपाणा च वेशन्ता रेवामप्रतिदिश्ययः ।अयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥८॥
प्रपाणा च वेशन्ताः ।अयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥८॥
prapāṇā ca veśantāḥ .ayabhyā kanyā kalyāṇī totā kalpeṣu saṃmitā ..8..

सुप्रपाणा च वेशन्ता रेवान्त्सुप्रतिदिश्ययः ।सुयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥९॥
सुप्रपाणा च वेशन्ता रेवान् सुप्रतिदिश्ययः ।सुयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥९॥
suprapāṇā ca veśantā revān supratidiśyayaḥ .suyabhyā kanyā kalyāṇī totā kalpeṣu saṃmitā ..9..

परिवृक्ता च महिषी स्वस्त्या च युधिं गमः ।अनाशुरश्चायामी तोता कल्पेषु संमिता ॥१०॥
परिवृक्ता च महिषी स्वस्त्या च युधिम् गमः ।अनाशुरः च आयामी तोता कल्पेषु संमिता ॥१०॥
parivṛktā ca mahiṣī svastyā ca yudhim gamaḥ .anāśuraḥ ca āyāmī totā kalpeṣu saṃmitā ..10..

वावाता च महिषी स्वस्त्या च युधिं गमः ।श्वाशुरश्चायामी तोता कल्पेषु संमिता ॥११॥
वावाता च महिषी स्वस्त्या च युधिम् गमः ।श्वाशुरः च आयामी तोता कल्पेषु संमिता ॥११॥
vāvātā ca mahiṣī svastyā ca yudhim gamaḥ .śvāśuraḥ ca āyāmī totā kalpeṣu saṃmitā ..11..

यदिन्द्रादो दाशराज्ञे मानुषं वि गाहथाः ।विरूपः सर्वस्मा आसीत्सह यक्षाय कल्पते ॥१२॥
यत् इन्द्र अदः दाशराज्ञे मानुषम् वि गाहथाः ।विरूपः सर्वस्मै आसीत् सह यक्षाय कल्पते ॥१२॥
yat indra adaḥ dāśarājñe mānuṣam vi gāhathāḥ .virūpaḥ sarvasmai āsīt saha yakṣāya kalpate ..12..

त्वं वृषाक्षुं मघवन्न् अम्रं मर्याकरो रविः ।त्वं रौहिणं व्यास्यो वि वृत्रस्याभिनच्छिरः ॥१३॥
त्वम् वृषाक्षुम् मघवन् अम्रम् मर्य-आकरः रविः ।त्वम् रौहिणम् व्यास्यः वि वृत्रस्य अभिनत् शिरः ॥१३॥
tvam vṛṣākṣum maghavan amram marya-ākaraḥ raviḥ .tvam rauhiṇam vyāsyaḥ vi vṛtrasya abhinat śiraḥ ..13..

यः पर्वतान् व्यदधाद्यो अपो व्यगाहथाः ।इन्द्रो यो वृत्रहान्महं तस्मादिन्द्र नमोऽस्तु ते ॥१४॥
यः पर्वतान् व्यदधात् यः अपः व्यगाहथाः ।इन्द्रः यः वृत्रहा महम् तस्मात् इन्द्र नमः अस्तु ते ॥१४॥
yaḥ parvatān vyadadhāt yaḥ apaḥ vyagāhathāḥ .indraḥ yaḥ vṛtrahā maham tasmāt indra namaḥ astu te ..14..

पृष्ठं धावन्तं हर्योरौच्चैः श्रवसमब्रुवन् ।स्वस्त्यश्व जैत्रायेन्द्रमा वह सुस्रजम् ॥१५॥
पृष्ठम् धावन्तम् हर्योः औच्चैस् श्रवसम् अब्रुवन् ।स्वस्ति-अश्व जैत्राय इन्द्रमाः वह सु स्रजम् ॥१५॥
pṛṣṭham dhāvantam haryoḥ auccais śravasam abruvan .svasti-aśva jaitrāya indramāḥ vaha su srajam ..15..

ये त्वा श्वेता अजैश्रवसो हार्यो युञ्जन्ति दक्षिणम् ।पूर्वा नमस्य देवानां बिभ्रदिन्द्र महीयते ॥१६॥
ये त्वा श्वेताः अजैश्रवसः हार्यः युञ्जन्ति दक्षिणम् ।पूर्वा नमस्य देवानाम् बिभ्रत् इन्द्र महीयते ॥१६॥
ye tvā śvetāḥ ajaiśravasaḥ hāryaḥ yuñjanti dakṣiṇam .pūrvā namasya devānām bibhrat indra mahīyate ..16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In